१. आदिपर्व
१.१९४.१कर्ण उवाच

१.१९४.२दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः
न ह्युपायेन ते शक्याः पाण्डवाः कुरुनन्दन

१.१९४.३पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया
निग्रहीतुं यदा वीर शकिता न तदा त्वया

१.१९४.४इहैव वर्तमानास्ते समीपे तव पार्थिव
अजातपक्षाः शिशवः शकिता नैव बाधितुम्

१.१९४.५जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते
नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत

१.१९४.६न च ते व्यसनैर्योक्तुं शक्या दिष्टकृता हि ते
शङ्किताश्चेप्सवश्चैव पितृपैतामहं पदम्

१.१९४.७परस्परेण भेदश्च नाधातुं तेषु शक्यते
एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम्

१.१९४.८न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः
परिद्यूनान्वृतवती किमुताद्य मृजावतः

१.१९४.९ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता
तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम्

१.१९४.१०आर्यवृत्तश्च पाञ्चाल्यो न स राजा धनप्रियः
न संत्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम्

१.१९४.११तथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान्
तस्मान्नोपायसाध्यांस्तानहं मन्ये कथंचन

१.१९४.१२इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ
यावन्न कृतमूलास्ते पाण्डवेया विशां पते
तावत्प्रहरणीयास्ते रोचतां तव विक्रमः

१.१९४.१३अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः
तावत्प्रहरणं तेषां क्रियतां मा विचारय

१.१९४.१४वाहनानि प्रभूतानि मित्राणि बहुलानि च
यावन्न तेषां गान्धारे तावदेवाशु विक्रम

१.१९४.१५यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः
सह पुत्रैर्महावीर्यैस्तावदेवाशु विक्रम

१.१९४.१६यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम्
राज्यार्थे पाण्डवेयानां तावदेवाशु विक्रम

१.१९४.१७वसूनि विविधान्भोगान्राज्यमेव च केवलम्
नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे महीपते

१.१९४.१८विक्रमेण मही प्राप्ता भरतेन महात्मना
विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः

१.१९४.१९विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते
स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ

१.१९४.२०ते बलेन वयं राजन्महता चतुरङ्गिणा
प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान्

१.१९४.२१न हि साम्ना न दानेन न भेदेन च पाण्डवाः
शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि

१.१९४.२२तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम्
नान्यमत्र प्रपश्यामि कार्योपायं जनाधिप

१.१९४.२३वैशंपायन उवाच

१.१९४.२४श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान्
अभिपूज्य ततः पश्चादिदं वचनमब्रवीत्

१.१९४.२५उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने
त्वयि विक्रमसंपन्नमिदं वचनमीदृशम्

१.१९४.२६भूय एव तु भीष्मश्च द्रोणो विदुर एव च
युवां च कुरुतां बुद्धिं भवेद्या नः सुखोदया

१.१९४.२७तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः
धृतराष्ट्रो महाराज मन्त्रयामास वै तदा