१.१९५.१भीष्म उवाच
१.१९५.२न रोचते विग्रहो मे पाण्डुपुत्रैः कथंचन
यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम्
१.१९५.३गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः
यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव
१.१९५.४यथा च मम राज्ञश्च तथा दुर्योधनस्य ते
तथा कुरूणां सर्वेषामन्येषामपि भारत
१.१९५.५एवं गते विग्रहं तैर्न रोचये; संधाय वीरैर्दीयतामद्य भूमिः
तेषामपीदं प्रपितामहानां; राज्यं पितुश्चैव कुरूत्तमानाम्
१.१९५.६दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि
मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः
१.१९५.७यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तपस्विनः
कुत एव तवापीदं भारतस्य च कस्यचित्
१.१९५.८अथ धर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ
तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः
१.१९५.९मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम्
एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च
१.१९५.१०अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति
तवाप्यकीर्तिः सकला भविष्यति न संशयः
१.१९५.११कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम्
नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम्
१.१९५.१२यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव
तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति
१.१९५.१३तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम्
अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु
१.१९५.१४दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा
दिष्ट्या पुरोचनः पापो नसकामोऽत्ययं गतः
१.१९५.१५तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम्
लोके प्राणभृतां कंचिच्छ्रुत्वा कुन्तीं तथागताम्
१.१९५.१६न चापि दोषेण तथा लोको वैति पुरोचनम्
यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति
१.१९५.१७तदिदं जीवितं तेषां तव कल्मषनाशनम्
संमन्तव्यं महाराज पाण्डवानां च दर्शनम्
१.१९५.१८न चापि तेषां वीराणां जीवतां कुरुनन्दन
पित्र्योंऽशः शक्य आदातुमपि वज्रभृता स्वयम्
१.१९५.१९ते हि सर्वे स्थिता धर्मे सर्वे चैवैकचेतसः
अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः
१.१९५.२०यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे
क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम्