१.२.१ऋषय ऊचुः
१.२.२समन्तपञ्चकमिति यदुक्तं सूतनन्दन
एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम्
१.२.३सूत उवाच
१.२.४शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः
समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः
१.२.५त्रेताद्वापरयोः संधौ रामः शस्त्रभृतां वरः
असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः
१.२.६स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः
समन्तपञ्चके पञ्च चकार रुधिरह्रदान्
१.२.७स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः
पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम्
१.२.८अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम्
तं क्षमस्वेति सिषिधुस्ततः स विरराम ह
१.२.९तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्
समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्
१.२.१०येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः
१.२.११अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत्
समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः
१.२.१२तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया
१.२.१३एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः
पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः
१.२.१४तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः
यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः
१.२.१५ऋषय ऊचुः
१.२.१६अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्
१.२.१७अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम्
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव
१.२.१८सूत उवाच
१.२.१९एको रथो गजश्चैको नराः पञ्च पदातयः
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते
१.२.२०पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते
१.२.२१त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः
१.२.२२चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः
१.२.२३अक्षौहिण्याः प्रसंख्यानं रथानां द्विजसत्तमाः
संख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः
१.२.२४शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः
गजानां तु परीमाणमेतदेवात्र निर्दिशेत्
१.२.२५ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः
१.२.२६पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च
दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया
१.२.२७एतामक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाः
यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः
१.२.२८एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः
१.२.२९समेतास्तत्र वै देशे तत्रैव निधनं गताः
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा
१.२.३०अहानि युयुधे भीष्मो दशैव परमास्त्रवित्
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्
१.२.३१अहनी युयुधे द्वे तु कर्णः परबलार्दनः
शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम्
१.२.३२तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम्
१.२.३३यत्तु शौनकसत्रे ते भारताख्यानविस्तरम्
आख्यास्ये तत्र पौलोममाख्यानं चादितः परम्
१.२.३४विचित्रार्थपदाख्यानमनेकसमयान्वितम्
अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः
१.२.३५आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम्
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्
१.२.३६इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्
१.२.३७अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः
भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः
१.२.३८पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसंग्रहः
पौष्यं पौलोममास्तीकमादिवंशावतारणम्
१.२.३९ततः संभवपर्वोक्तमद्भुतं देवनिर्मितम्
दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते
१.२.४०ततो बकवधः पर्व पर्व चैत्ररथं ततः
ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते
१.२.४१क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्
विदुरागमनं पर्व राज्यलम्भस्तथैव च
१.२.४२अर्जुनस्य वने वासः सुभद्राहरणं ततः
सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम्
१.२.४३ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम्
सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम्
१.२.४४जरासंधवधः पर्व पर्व दिग्विजयस्तथा
पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते
१.२.४५ततश्चार्घाभिहरणं शिशुपालवधस्ततः
द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम्
१.२.४६तत आरण्यकं पर्व किर्मीरवध एव च
ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम्
१.२.४७इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम्
तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः
१.२.४८जटासुरवधः पर्व यक्षयुद्धमतः परम्
तथैवाजगरं पर्व विज्ञेयं तदनन्तरम्
१.२.४९मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम्
संवादश्च ततः पर्व द्रौपदीसत्यभामयोः
१.२.५०घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः
व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते
१.२.५१द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः
कुण्डलाहरणं पर्व ततः परमिहोच्यते
१.२.५२आरणेयं ततः पर्व वैराटं तदनन्तरम्
कीचकानां वधः पर्व पर्व गोग्रहणं ततः
१.२.५३अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम्
उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम्
१.२.५४ततः संजययानाख्यं पर्व ज्ञेयमतः परम्
प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया
१.२.५५पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम्
यानसंधिस्ततः पर्व भगवद्यानमेव च
१.२.५६ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः
निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः
१.२.५७रथातिरथसंख्या च पर्वोक्तं तदनन्तरम्
उलूकदूतागमनं पर्वामर्षविवर्धनम्
१.२.५८अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम्
भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम्
१.२.५९जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम्
भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम्
१.२.६०पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः
द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः
१.२.६१अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते
जयद्रथवधः पर्व घटोत्कचवधस्ततः
१.२.६२ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम्
मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते
१.२.६३कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम्
ह्रदप्रवेशनं पर्व गदायुद्धमतः परम्
१.२.६४सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम्
अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते
१.२.६५ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम्
जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम्
१.२.६६श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम्
आभिषेचनिकं पर्व धर्मराजस्य धीमतः
१.२.६७चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः
प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम्
१.२.६८शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम्
आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम्
१.२.६९ततः पर्व परिज्ञेयमानुशासनिकं परम्
स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः
१.२.७०ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम्
अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम्
१.२.७१पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च
नारदागमनं पर्व ततः परमिहोच्यते
१.२.७२मौसलं पर्व च ततो घोरं समनुवर्ण्यते
महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः
१.२.७३हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम्
भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत्
१.२.७४एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना
यथावत्सूतपुत्रेण लोमहर्षणिना पुनः
१.२.७५कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु
समासो भारतस्यायं तत्रोक्तः पर्वसंग्रहः
१.२.७६पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम्
पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः
१.२.७७आस्तीके सर्वनागानां गरुडस्य च संभवः
क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा
१.२.७८यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च
कथेयमभिनिर्वृत्ता भारतानां महात्मनाम्
१.२.७९विविधाः संभवा राज्ञामुक्ताः संभवपर्वणि
अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च
१.२.८०अंशावतरणं चात्र देवानां परिकीर्तितम्
दैत्यानां दानवानां च यक्षाणां च महौजसाम्
१.२.८१नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम्
अन्येषां चैव भूतानां विविधानां समुद्भवः
१.२.८२वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम्
शंतनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि
१.२.८३तेजोंशानां च संघाताद्भीष्मस्याप्यत्र संभवः
राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः
१.२.८४प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च
हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः
१.२.८५विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम्
धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा
१.२.८६कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा
धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः
१.२.८७वारणावतयात्रा च मन्त्रो दुर्योधनस्य च
विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया
१.२.८८पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम्
घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता
१.२.८९अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि
बकस्य निधनं चैव नागराणां च विस्मयः
१.२.९०अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा
भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ
१.२.९१तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम्
पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते
१.२.९२पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च
द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः
१.२.९३विदुरस्य च संप्राप्तिर्दर्शनं केशवस्य च
खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम्
१.२.९४नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया
सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम्
१.२.९५पार्थस्य वनवासश्च उलूप्या पथि संगमः
पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च
१.२.९६द्वारकायां सुभद्रा च कामयानेन कामिनी
वासुदेवस्यानुमते प्राप्ता चैव किरीटिना
१.२.९७हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने
संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम्
१.२.९८अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः
मयस्य मोक्षो ज्वलनाद्भुजंगस्य च मोक्षणम्
महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसंभवः
१.२.९९इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम्
अध्यायानां शते द्वे तु संख्याते परमर्षिणा
अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा
१.२.१००सप्त श्लोकसहस्राणि तथा नव शतानि च
श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना
१.२.१०१द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते
सभाक्रिया पाण्डवानां किंकराणां च दर्शनम्
१.२.१०२लोकपालसभाख्यानं नारदाद्देवदर्शनात्
राजसूयस्य चारम्भो जरासंधवधस्तथा
१.२.१०३गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम्
राजसूयेऽर्घसंवादे शिशुपालवधस्तथा
१.२.१०४यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च
दुर्योधनस्यावहासो भीमेन च सभातले
१.२.१०५यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत्
यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत्
१.२.१०६यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात्
तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः
पुनरेव ततो द्यूते समाह्वयत पाण्डवान्
१.२.१०७एतत्सर्वं सभापर्व समाख्यातं महात्मना
अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र संख्यया
१.२.१०८श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च
श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः
१.२.१०९अतः परं तृतीयं तु ज्ञेयमारण्यकं महत्
पौरानुगमनं चैव धर्मपुत्रस्य धीमतः
१.२.११०वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः
यत्र सौभवधाख्यानं किर्मीरवध एव च
अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः
१.२.१११महादेवेन युद्धं च किरातवपुषा सह
दर्शनं लोकपालानां स्वर्गारोहणमेव च
१.२.११२दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः
युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम्
१.२.११३नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम्
दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे
१.२.११४वनवासगतानां च पाण्डवानां महात्मनाम्
स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै
१.२.११५तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम्
जटासुरस्य तत्रैव वधः समुपवर्ण्यते
१.२.११६नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने
यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत्
१.२.११७यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः
यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा
१.२.११८आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम्
लोपामुद्राभिगमनमपत्यार्थमृषेरपि
१.२.११९ततः श्येनकपोतीयमुपाख्यानमनन्तरम्
इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम्
१.२.१२०ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः
जामदग्न्यस्य रामस्य चरितं भूरितेजसः
१.२.१२१कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते
सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः
१.२.१२२शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ
ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः
१.२.१२३जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः
पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः
१.२.१२४अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम्
विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः
१.२.१२५अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना
निवातकवचैर्युद्धं हिरण्यपुरवासिभिः
१.२.१२६समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने
घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः
१.२.१२७पुनरागमनं चैव तेषां द्वैतवनं सरः
जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात्
१.२.१२८यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे
मार्कण्डेयसमस्यायामुपाख्यानानि भागशः
१.२.१२९संदर्शनं च कृष्णस्य संवादश्चैव सत्यया
व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च
१.२.१३०सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च
रामायणमुपाख्यानमत्रैव बहुविस्तरम्
१.२.१३१कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात्
आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम्
जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम्
१.२.१३२एतदारण्यकं पर्व तृतीयं परिकीर्तितम्
अत्राध्यायशते द्वे तु संख्याते परमर्षिणा
एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः
१.२.१३३एकादश सहस्राणि श्लोकानां षट्शतानि च
चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम्
१.२.१३४अतः परं निबोधेदं वैराटं पर्वविस्तरम्
विराटनगरं गत्वा श्मशाने विपुलां शमीम्
दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत
१.२.१३५यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते
दुरात्मनो वधो यत्र कीचकस्य वृकोदरात्
१.२.१३६गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि
गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः
१.२.१३७विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः
अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम्
१.२.१३८चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम्
अत्रापि परिसंख्यातमध्यायानां महात्मना
१.२.१३९सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु
श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु
पर्वण्यस्मिन्समाख्याताः संख्यया परमर्षिणा
१.२.१४०उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम्
उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया
दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ
१.२.१४१साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति
इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः
१.२.१४२अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ
अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम्
१.२.१४३वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः
अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः
१.२.१४४संजयं प्रेषयामास शमार्थं पाण्डवान्प्रति
यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान्
१.२.१४५श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान्
प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया
१.२.१४६विदुरो यत्र वाक्यानि विचित्राणि हितानि च
श्रावयामास राजानं धृतराष्ट्रं मनीषिणम्
१.२.१४७तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम्
मनस्तापान्वितो राजा श्रावितः शोकलालसः
१.२.१४८प्रभाते राजसमितौ संजयो यत्र चाभिभोः
ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च
१.२.१४९यत्र कृष्णो दयापन्नः संधिमिच्छन्महायशाः
स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम्
१.२.१५०प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै
शमार्थं याचमानस्य पक्षयोरुभयोर्हितम्
१.२.१५१कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम्
योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम्
१.२.१५२रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः
उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः
१.२.१५३ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम्
नगराद्धास्तिनपुराद्बलसंख्यानमेव च
१.२.१५४यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति
श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना
रथातिरथसंख्यानमम्बोपाख्यानमेव च
१.२.१५५एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते
उद्योगपर्व निर्दिष्टं संधिविग्रहसंश्रितम्
१.२.१५६अध्यायाः संख्यया त्वत्र षडशीतिशतं स्मृतम्
श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च
१.२.१५७श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना
व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः
१.२.१५८अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते
जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह
१.२.१५९यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम्
यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम्
१.२.१६०कश्मलं यत्र पार्थस्य वासुदेवो महामतिः
मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः
१.२.१६१शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः
विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत्
१.२.१६२षष्ठमेतन्महापर्व भारते परिकीर्तितम्
अध्यायानां शतं प्रोक्तं सप्तदश तथापरे
१.२.१६३पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च
श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः
व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि
१.२.१६४द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते
यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात्
१.२.१६५भगदत्तो महाराजो यत्र शक्रसमो युधि
सुप्रतीकेन नागेन सह शस्तः किरीटिना
१.२.१६६यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः
जयद्रथमुखा बालं शूरमप्राप्तयौवनम्
१.२.१६७हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः
संशप्तकावशेषं च कृतं निःशेषमाहवे
१.२.१६८अलम्बुसः श्रुतायुश्च जलसंधश्च वीर्यवान्
सौमदत्तिर्विराटश्च द्रुपदश्च महारथः
घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि
१.२.१६९अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते
अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः
१.२.१७०सप्तमं भारते पर्व महदेतदुदाहृतम्
अत्र ते पृथिवीपालाः प्रायशो निधनं गताः
द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः
१.२.१७१अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा
अष्टौ श्लोकसहस्राणि तथा नव शतानि च
१.२.१७२श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना
पाराशर्येण मुनिना संचिन्त्य द्रोणपर्वणि
१.२.१७३अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम्
सारथ्ये विनियोगश्च मद्रराजस्य धीमतः
आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम्
१.२.१७४प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः
हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम्
१.२.१७५अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः
द्वैरथे यत्र पार्थेन हतः कर्णो महारथः
१.२.१७६अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः
एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि
चत्वार्येव सहस्राणि नव श्लोकशतानि च
१.२.१७७अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम्
हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत्
१.२.१७८वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः
विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते
१.२.१७९शल्यस्य निधनं चात्र धर्मराजान्महारथात्
गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम्
सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता
१.२.१८०नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत्
एकोनषष्टिरध्यायास्तत्र संख्याविशारदैः
१.२.१८१संख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते
त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा
मुनिना संप्रणीतानि कौरवाणां यशोभृताम्
१.२.१८२अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम्
भग्नोरुं यत्र राजानं दुर्योधनममर्षणम्
१.२.१८३व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः
कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः
१.२.१८४प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः
अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान्
पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम्
१.२.१८५प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः
पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः
१.२.१८६यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात्
सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः
१.२.१८७द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता
कृतानशनसंकल्पा यत्र भर्तॄनुपाविशत्
१.२.१८८द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः
अन्वधावत संक्रुद्धो भारद्वाजं गुरोः सुतम्
१.२.१८९भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः
अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत्
१.२.१९०मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः
यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः
१.२.१९१द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः
तोयकर्मणि सर्वेषां राज्ञामुदकदानिके
१.२.१९२गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः
सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम्
१.२.१९३अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना
श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च
१.२.१९४श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसंख्यया
सौप्तिकैषीकसंबन्धे पर्वण्यमितबुद्धिना
१.२.१९५अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम्
विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः
क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः
१.२.१९६यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः
पुत्रान्भ्रातॄन्पितॄंश्चैव ददृशुर्निहतान्रणे
१.२.१९७यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः
राज्ञां तानि शरीराणि दाहयामास शास्त्रतः
१.२.१९८एतदेकादशं प्रोक्तं पर्वातिकरुणं महत्
सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः
१.२.१९९श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते
संख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना
प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम्
१.२.२००अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम्
यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः
घातयित्वा पितॄन्भ्रातॄन्पुत्रान्संबन्धिबान्धवान्
१.२.२०१शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः
राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः
१.२.२०२आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः
यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात्
मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः
१.२.२०३द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम्
पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम्
त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः
१.२.२०४श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश
पञ्च चैव शतान्याहुः पञ्चविंशतिसंख्यया
१.२.२०५अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम्
यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम्
भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः
१.२.२०६व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः
विविधानां च दानानां फलयोगाः पृथग्विधाः
१.२.२०७तथा पात्रविशेषाश्च दानानां च परो विधिः
आचारविधियोगश्च सत्यस्य च परा गतिः
१.२.२०८एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम्
भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता
१.२.२०९एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम्
अध्यायानां शतं चात्र षट्चत्वारिंशदेव च
श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च
१.२.२१०ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्
तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम्
१.२.२११सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परिक्षितः
दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः
१.२.२१२चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः
तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः
१.२.२१३चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः
संग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः
अश्वमेधे महायज्ञे नकुलाख्यानमेव च
१.२.२१४इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम्
अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः
१.२.२१५त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च
विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना
१.२.२१६तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम्
यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः
धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह
१.२.२१७यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा
पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता
१.२.२१८यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान्
लोकान्तरगतान्वीरानपश्यत्पुनरागतान्
१.२.२१९ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम्
त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः
१.२.२२०यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः
संजयश्च महामात्रो विद्वान्गावल्गणिर्वशी
१.२.२२१ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः
नारदाच्चैव शुश्राव वृष्णीनां कदनं महत्
१.२.२२२एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम्
द्विचत्वारिंशदध्यायाः पर्वैतदभिसंख्यया
१.२.२२३सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च
षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना
१.२.२२४अतः परं निबोधेदं मौसलं पर्व दारुणम्
यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि
ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः
१.२.२२५आपाने पानगलिता दैवेनाभिप्रचोदिताः
एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम्
१.२.२२६यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ
नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम्
१.२.२२७यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम्
दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः
१.२.२२८स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः
ददर्श यदुवीराणामापाने वैशसं महत्
१.२.२२९शरीरं वासुदेवस्य रामस्य च महात्मनः
संस्कारं लम्भयामास वृष्णीनां च प्रधानतः
१.२.२३०स वृद्धबालमादाय द्वारवत्यास्ततो जनम्
ददर्शापदि कष्टायां गाण्डीवस्य पराभवम्
१.२.२३१सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम्
नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम्
१.२.२३२दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः
धर्मराजं समासाद्य संन्यासं समरोचयेत्
१.२.२३३इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम्
अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम्
१.२.२३४महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम्
यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः
द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः
१.२.२३५अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा
विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना
१.२.२३६स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम्
अध्यायाः पञ्च संख्याताः पर्वैतदभिसंख्यया
श्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः
१.२.२३७अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः
खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम्
१.२.२३८एतदखिलमाख्यातं भारतं पर्वसंग्रहात्
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया
तन्महद्दारुणं युद्धमहान्यष्टादशाभवत्
१.२.२३९यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः
न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः
१.२.२४०श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते
पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव
१.२.२४१इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः
पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः
१.२.२४२अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः
अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः
१.२.२४३क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः
इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः
१.२.२४४अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते
आहारमनपाश्रित्य शरीरस्येव धारणम्
१.२.२४५इदं सर्वैः कविवरैराख्यानमुपजीव्यते
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः
१.२.२४६द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च
यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन
१.२.२४७आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसंग्रहेण
श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन