१.२००.१जनमेजय उवाच
१.२००.२एवं संप्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन
अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः
१.२००.३सर्व एव महात्मानः पूर्वे मम पितामहाः
द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत
१.२००.४कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः
वर्तमाना महाभागा नाभिद्यन्त परस्परम्
१.२००.५श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन
तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया
१.२००.६वैशंपायन उवाच
१.२००.७धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः
रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परंतपाः
१.२००.८प्राप्य राज्यं महातेजाः सत्यसंधो युधिष्ठिरः
पालयामास धर्मेण पृथिवीं भ्रातृभिः सह
१.२००.९जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः
मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः
१.२००.१०कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः
आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च
१.२००.११अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु
नारदस्त्वथ देवर्षिराजगाम यदृच्छया
आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः
१.२००.१२देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि
प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत्
१.२००.१३प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत्
आशीर्भिर्वर्धयित्वा तु तमुवाचास्यतामिति
१.२००.१४निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः
प्रेषयामास कृष्णायै भगवन्तमुपस्थितम्
१.२००.१५श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता
जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह
१.२००.१६तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी
कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा
१.२००.१७तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः
आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः
गम्यतामिति होवाच भगवांस्तामनिन्दिताम्
१.२००.१८गतायामथ कृष्णायां युधिष्ठिरपुरोगमान्
विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः
१.२००.१९पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी
यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम्
१.२००.२०सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ
आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ
१.२००.२१एकराज्यावेकगृहावेकशय्यासनाशनौ
तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः
१.२००.२२रक्ष्यतां सौहृदं तस्मादन्योन्यप्रतिभाविकम्
यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर
१.२००.२३युधिष्ठिर उवाच
१.२००.२४सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने
उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम्
१.२००.२५अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा
यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम्
१.२००.२६एतत्सर्वं यथावृत्तं विस्तरेण तपोधन
श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः