१. आदिपर्व
१.२०१.१नारद उवाच

१.२०१.२शृणु मे विस्तरेणेममितिहासं पुरातनम्
भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर

१.२०१.३महासुरस्यान्ववाये हिरण्यकशिपोः पुरा
निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत्

१.२०१.४तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ
सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः

१.२०१.५अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ
एकशीलसमाचारौ द्विधैवैकं यथा कृतौ

१.२०१.६तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ
त्रैलोक्यविजयार्थाय समास्थायैकनिश्चयम्

१.२०१.७कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः
तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः

१.२०१.८क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ
मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः

१.२०१.९आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ
ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ

१.२०१.१०तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः
धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत्

१.२०१.११ततो देवाभवन्भीता उग्रं दृष्ट्वा तयोस्तपः
तपोविघातार्थमथो देवा विघ्नानि चक्रिरे

१.२०१.१२रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ

१.२०१.१३अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः
भगिन्यो मातरो भार्यास्तयोः परिजनस्तथा

१.२०१.१४परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा
स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः

१.२०१.१५अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ

१.२०१.१६यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः
ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत

१.२०१.१७ततः पितामहः साक्षादभिगम्य महासुरौ
वरेण छन्दयामास सर्वलोकपितामहः

१.२०१.१८ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ
दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा

१.२०१.१९ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा
आवयोस्तपसानेन यदि प्रीतः पितामहः

१.२०१.२०मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ
उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः

१.२०१.२१पितामह उवाच

१.२०१.२२ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति
अन्यद्वृणीतां मृत्योश्च विधानममरैः समम्

१.२०१.२३करिष्यावेदमिति यन्महदभ्युत्थितं तपः
युवयोर्हेतुनानेन नामरत्वं विधीयते

१.२०१.२४त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः
हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम्

१.२०१.२५सुन्दोपसुन्दावूचतुः

१.२०१.२६त्रिषु लोकेषु यद्भूतं किंचित्स्थावरजङ्गमम्
सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह

१.२०१.२७पितामह उवाच

१.२०१.२८यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम्
मृत्योर्विधानमेतच्च यथावद्वां भविष्यति

१.२०१.२९नारद उवाच

१.२०१.३०ततः पितामहो दत्त्वा वरमेतत्तदा तयोः
निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह

१.२०१.३१लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ
अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ

१.२०१.३२तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ
सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान्

१.२०१.३३ततस्तौ तु जटा हित्वा मौलिनौ संबभूवतुः
महार्हाभरणोपेतौ विरजोम्बरधारिणौ

१.२०१.३४अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम्
दैत्येन्द्रौ परमप्रीतौ तयोश्चैव सुहृज्जनः

१.२०१.३५भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयतामिति
पीयतां दीयतां चेति वाच आसन्गृहे गृहे

१.२०१.३६तत्र तत्र महापानैरुत्कृष्टतलनादितैः
हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम्

१.२०१.३७तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम्
समाः संक्रीडतां तेषामहरेकमिवाभवत्