१.२०५.१वैशंपायन उवाच
१.२०५.२एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः
१.२०५.३तेषां मनुजसिंहानां पञ्चानाममितौजसाम्
बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी
१.२०५.४ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः
बभूव परमप्रीता नागैरिव सरस्वती
१.२०५.५वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु
व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः
१.२०५.६अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते
कस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम
१.२०५.७ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः
आगम्य खाण्डवप्रस्थमुदक्रोशत पाण्डवान्
१.२०५.८ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः
प्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः
१.२०५.९ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते
शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति
१.२०५.१०ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते
रोरूयमाणे च मयि क्रियतामस्त्रधारणम्
१.२०५.११रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः
तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनंजयः
१.२०५.१२श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम्
आयुधानि च यत्रासन्पाण्डवानां महात्मनाम्
कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः
१.२०५.१३स प्रवेशाय चाशक्तो गमनाय च पाण्डवः
तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः
आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः
१.२०५.१४ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः
अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः
१.२०५.१५उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः
यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम्
१.२०५.१६अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे
प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत्
१.२०५.१७अनापृच्छ्य च राजानं गते मयि न संशयः
अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत्
१.२०५.१८अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम
अधर्मो वा महानस्तु वने वा मरणं मम
शरीरस्यापि नाशेन धर्म एव विशिष्यते
१.२०५.१९एवं विनिश्चित्य ततः कुन्तीपुत्रो धनंजयः
अनुप्रविश्य राजानमापृच्छ्य च विशां पते
१.२०५.२०धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत
ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः
१.२०५.२१न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह
यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव
१.२०५.२२सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी
शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम्
१.२०५.२३ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः
आजगाम पुरं वीरः सव्यसाची परंतपः
१.२०५.२४सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः
धर्मराजमुवाचेदं व्रतमादिश्यतां मम
१.२०५.२५समयः समतिक्रान्तो भवत्संदर्शनान्मया
वनवासं गमिष्यामि समयो ह्येष नः कृतः
१.२०५.२६इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम्
कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया
युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम्
१.२०५.२७प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ
अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम्
सर्वं तदनुजानामि व्यलीकं न च मे हृदि
१.२०५.२८गुरोरनुप्रवेशो हि नोपघातो यवीयसः
यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः
१.२०५.२९निवर्तस्व महाबाहो कुरुष्व वचनं मम
न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता
१.२०५.३०अर्जुन उवाच
१.२०५.३१न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम्
न सत्याद्विचलिष्यामि सत्येनायुधमालभे
१.२०५.३२वैशंपायन उवाच
१.२०५.३३सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः
वने द्वादश वर्षाणि वासायोपजगाम ह