१.२०४.१नारद उवाच
१.२०४.२जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ
कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः
१.२०४.३देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम्
आदाय सर्वरत्नानि परां तुष्टिमुपागतौ
१.२०४.४यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन
निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव
१.२०४.५स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः
पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः
१.२०४.६अन्तःपुरे वनोद्याने पर्वतोपवनेषु च
यथेप्सितेषु देशेषु विजह्रातेऽमराविव
१.२०४.७ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले
पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः
१.२०४.८दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ
वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः
१.२०४.९ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः
गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे
१.२०४.१०ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती
वेषमाक्षिप्तमाधाय रक्तेनैकेन वाससा
१.२०४.११नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती
शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ
१.२०४.१२तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ
दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः
१.२०४.१३तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता
उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम्
१.२०४.१४दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना
उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम्
१.२०४.१५वरप्रदानमत्तौ तावौरसेन बलेन च
धनरत्नमदाभ्यां च सुरापानमदेन च
१.२०४.१६सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ
मदकामसमाविष्टौ परस्परमथोचतुः
१.२०४.१७मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत
मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत
१.२०४.१८नैषा तव ममैषेति तत्र तौ मन्युराविशत्
तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम्
१.२०४.१९तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ
अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः
१.२०४.२०तौ गदाभिहतौ भीमौ पेततुर्धरणीतले
रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ
१.२०४.२१ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा
पातालमगमत्सर्वो विषादभयकम्पितः
१.२०४.२२ततः पितामहस्तत्र सह देवैर्महर्षिभिः
आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम्
१.२०४.२३वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह
वरयामास तत्रैनां प्रीतः प्राह पितामहः
१.२०४.२४आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि
तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन
१.२०४.२५एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः
इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः
१.२०४.२६एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ
तिलोत्तमार्थे संक्रुद्धावन्योन्यमभिजघ्नतुः
१.२०४.२७तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान्
यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते
तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ
१.२०४.२८वैशंपायन उवाच
१.२०४.२९एवमुक्ता महात्मानो नारदेन महर्षिणा
समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः
समक्षं तस्य देवर्षेर्नारदस्यामितौजसः
१.२०४.३०द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत्
स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत्
१.२०४.३१कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः
नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः
१.२०४.३२एवं तैः समयः पूर्वं कृतो नारदचोदितैः
न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत