१. आदिपर्व
१.२०७.१वैशंपायन उवाच

१.२०७.२कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत
प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः

१.२०७.३अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम्
भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः

१.२०७.४प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च
निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः

१.२०७.५हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः
दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च

१.२०७.६अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत
प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः

१.२०७.७आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः
नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति

१.२०७.८नन्दामपरनन्दां च कौशिकीं च यशस्विनीम्
महानदीं गयां चैव गङ्गामपि च भारत

१.२०७.९एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान्
आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ वसु

१.२०७.१०अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानिचित्
जगाम तानि सर्वाणि तीर्थान्यायतनानि च
दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः

१.२०७.११कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः
अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत

१.२०७.१२स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनंजयः
सहायैरल्पकैः शूरः प्रययौ येन सागरम्

१.२०७.१३स कलिङ्गानतिक्रम्य देशानायतनानि च
धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः

१.२०७.१४महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम्
समुद्रतीरेण शनैर्मणलूरं जगाम ह

१.२०७.१५तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च
अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम्
मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम्

१.२०७.१६तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना
तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया

१.२०७.१७दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम्
अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम्
तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः

१.२०७.१८राजा प्रभंकरो नाम कुले अस्मिन्बभूव ह
अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम्

१.२०७.१९उग्रेण तपसा तेन प्रणिपातेन शंकरः
ईश्वरस्तोषितस्तेन महादेव उमापतिः

१.२०७.२०स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले
एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा

१.२०७.२१तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे
कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम्

१.२०७.२२पुत्रो ममेयमिति मे भावना पुरुषोत्तम
पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ

१.२०७.२३एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह
एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव

१.२०७.२४स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च
उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः