१.२०८.१वैशंपायन उवाच
१.२०८.२ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः
अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः
१.२०८.३वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः
आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः
१.२०८.४अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम्
कारंधमं प्रसन्नं च हयमेधफलं च यत्
भारद्वाजस्य तीर्थं च पापप्रशमनं महत्
१.२०८.५विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः
दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः
१.२०८.६तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः
तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः
१.२०८.७तापसा ऊचुः
१.२०८.८ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान्
अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन
१.२०८.९वैशंपायन उवाच
१.२०८.१०तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः
जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः
१.२०८.११ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम्
विगाह्य तरसा शूरः स्नानं चक्रे परंतपः
१.२०८.१२अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान्
निजग्राह जले ग्राहः कुन्तीपुत्रं धनंजयम्
१.२०८.१३स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम्
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः
१.२०८.१४उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना
बभूव नारी कल्याणी सर्वाभरणभूषिता
दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा
१.२०८.१५तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनंजयः
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत्
१.२०८.१६का वै त्वमसि कल्याणि कुतो वासि जलेचरी
किमर्थं च महत्पापमिदं कृतवती पुरा
१.२०८.१७नार्युवाच
१.२०८.१८अप्सरास्मि महाबाहो देवारण्यविचारिणी
इष्टा धनपतेर्नित्यं वर्गा नाम महाबल
१.२०८.१९मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः
ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम्
१.२०८.२०ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम्
रूपवन्तमधीयानमेकमेकान्तचारिणम्
१.२०८.२१तस्य वै तपसा राजंस्तद्वनं तेजसावृतम्
आदित्य इव तं देशं कृत्स्नं स व्यवभासयत्
१.२०८.२२तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम्
अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया
१.२०८.२३अहं च सौरभेयी च समीची बुद्बुदा लता
यौगपद्येन तं विप्रमभ्यगच्छाम भारत
१.२०८.२४गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम्
स च नास्मासु कृतवान्मनो वीर कथंचन
नाकम्पत महातेजाः स्थितस्तपसि निर्मले
१.२०८.२५सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ
ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः