१. आदिपर्व
१.२१.१सूत उवाच

१.२१.२ततः कामगमः पक्षी महावीर्यो महाबलः
मातुरन्तिकमागच्छत्परं तीरं महोदधेः

१.२१.३यत्र सा विनता तस्मिन्पणितेन पराजिता
अतीव दुःखसंतप्ता दासीभावमुपागता

१.२१.४ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ
काल आहूय वचनं कद्रूरिदमभाषत

१.२१.५नागानामालयं भद्रे सुरम्यं रमणीयकम्
समुद्रकुक्षावेकान्ते तत्र मां विनते वह

१.२१.६ततः सुपर्णमाता तामवहत्सर्पमातरम्
पन्नगान्गरुडश्चापि मातुर्वचनचोदितः

१.२१.७स सूर्यस्याभितो याति वैनतेयो विहंगमः
सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन्
तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत्

१.२१.८नमस्ते देवदेवेश नमस्ते बलसूदन
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते

१.२१.९सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव
त्वमेव परमं त्राणमस्माकममरोत्तम

१.२१.१०ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे

१.२१.११त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम्
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः

१.२१.१२स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः
त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः

१.२१.१३त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्

१.२१.१४त्वं सर्वममृतं देव त्वं सोमः परमार्चितः
त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः

१.२१.१५शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा
संवत्सरर्तवो मासा रजन्यश्च दिनानि च

१.२१.१६त्वमुत्तमा सगिरिवना वसुंधरा; सभास्करं वितिमिरमम्बरं तथा
महोदधिः सतिमितिमिंगिलस्तथा; महोर्मिमान्बहुमकरो झषालयः

१.२१.१७महद्यशस्त्वमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः
अभिष्टुतः पिबसि च सोममध्वरे; वषट्कृतान्यपि च हवींषि भूतये

१.२१.१८त्वं विप्रैः सततमिहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्यभिगमयन्ति सर्ववेदैः