१. आदिपर्व
१.२२.१सूत उवाच

१.२२.२एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः
नीलजीमूतसंघातैर्व्योम सर्वं समावृणोत्

१.२२.३ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः
परस्परमिवात्यर्थं गर्जन्तः सततं दिवि

१.२२.४संघातितमिवाकाशं जलदैः सुमहाद्भुतैः
सृजद्भिरतुलं तोयमजस्रं सुमहारवैः

१.२२.५संप्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः
मेघस्तनितनिर्घोषमम्बरं समपद्यत

१.२२.६नागानामुत्तमो हर्षस्तदा वर्षति वासवे
आपूर्यत मही चापि सलिलेन समन्ततः