१. आदिपर्व
१.२१०.१वैशंपायन उवाच

१.२१०.२सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च
सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः

१.२१०.३समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च
तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान्

१.२१०.४प्रभासदेशं संप्राप्तं बीभत्सुमपराजितम्
तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः

१.२१०.५ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः
ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ

१.२१०.६तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने
आस्तां प्रियसखायौ तौ नरनारायणावृषी

१.२१०.७ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत
किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत

१.२१०.८ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा
श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः

१.२१०.९तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ
महीधरं रैवतकं वासायैवाभिजग्मतुः

१.२१०.१०पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम्
पुरुषाः समलंचक्रुरुपजह्रुश्च भोजनम्

१.२१०.११प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः
सहैव वासुदेवेन दृष्टवान्नटनर्तकान्

१.२१०.१२अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः
सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः

१.२१०.१३तीर्थानां दर्शनं चैव पर्वतानां च भारत
आपगानां वनानां च कथयामास सात्वते

१.२१०.१४स कथाः कथयन्नेव निद्रया जनमेजय
कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते

१.२१०.१५मधुरेण स गीतेन वीणाशब्देन चानघ
प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा

१.२१०.१६स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः
रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान्

१.२१०.१७अलंकृता द्वारका तु बभूव जनमेजय
कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि

१.२१०.१८दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाः
नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः

१.२१०.१९अवलोकेषु नारीणां सहस्राणि शतानि च
भोजवृष्ण्यन्धकानां च समवायो महानभूत्

१.२१०.२०स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः
अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः

१.२१०.२१कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः
समानवयसः सर्वानाश्लिष्य स पुनः पुनः

१.२१०.२२कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते
उवास सह कृष्णेन बहुलास्तत्र शर्वरीः