१. आदिपर्व
१.२०९.१वर्गोवाच

१.२०९.२ततो वयं प्रव्यथिताः सर्वा भरतसत्तम
आयाम शरणं विप्रं तं तपोधनमच्युतम्

१.२०९.३रूपेण वयसा चैव कन्दर्पेण च दर्पिताः
अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज

१.२०९.४एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन
यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः

१.२०९.५अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः
तस्माद्धर्मेण धर्मज्ञ नास्मान्हिंसितुमर्हसि

१.२०९.६सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते
सत्यो भवतु कल्याण एष वादो मनीषिणाम्

१.२०९.७शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम्
शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि

१.२०९.८वैशंपायन उवाच

१.२०९.९एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत्
प्रसादं कृतवान्वीर रविसोमसमप्रभः

१.२०९.१०ब्राह्मण उवाच

१.२०९.११शतं सहस्रं विश्वं च सर्वमक्षयवाचकम्
परिमाणं शतं त्वेतन्नैतदक्षयवाचकम्

१.२०९.१२यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले
उत्कर्षति जलात्कश्चित्स्थलं पुरुषसत्तमः

१.२०९.१३तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ
अनृतं नोक्तपूर्वं मे हसतापि कदाचन

१.२०९.१४तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह
नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः
पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम्

१.२०९.१५वर्गोवाच

१.२०९.१६ततोऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम्
अचिन्तयामोपसृत्य तस्माद्देशात्सुदुःखिताः

१.२०९.१७क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम्
समागच्छेम यो नस्तद्रूपमापादयेत्पुनः

१.२०९.१८ता वयं चिन्तयित्वैवं मुहूर्तादिव भारत
दृष्टवत्यो महाभागं देवर्षिमुत नारदम्

१.२०९.१९सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम्
अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः

१.२०९.२०स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तत्
श्रुत्वा तच्च यथावृत्तमिदं वचनमब्रवीत्

१.२०९.२१दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै
पुण्यानि रमणीयानि तानि गच्छत माचिरम्

१.२०९.२२तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनंजयः
मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः

१.२०९.२३तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः
तदिदं सत्यमेवाद्य मोक्षिताहं त्वयानघ

१.२०९.२४एतास्तु मम वै सख्यश्चतस्रोऽन्या जले स्थिताः
कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय

१.२०९.२५वैशंपायन उवाच

१.२०९.२६ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते
तस्माच्छापाददीनात्मा मोक्षयामास वीर्यवान्

१.२०९.२७उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम्
तास्तदाप्सरसो राजन्नदृश्यन्त यथा पुरा

१.२०९.२८तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः
चित्राङ्गदां पुनर्द्रष्टुं मणलूरपुरं ययौ

१.२०९.२९तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम्
तं दृष्ट्वा पाण्डवो राजन्गोकर्णमभितोऽगमत्