१.२१३.१वैशंपायन उवाच
१.२१३.२उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः
ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम्
१.२१३.३नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान्
संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम्
१.२१३.४अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा
स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः
१.२१३.५प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते
विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि
१.२१३.६एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः
अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः
१.२१३.७उचितश्चैव संबन्धः सुभद्रा च यशस्विनी
एष चापीदृशः पार्थः प्रसह्य हृतवानिति
१.२१३.८भरतस्यान्वये जातं शंतनोश्च महात्मनः
कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम्
१.२१३.९न च पश्यामि यः पार्थं विक्रमेण पराजयेत्
अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष
१.२१३.१०स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः
योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत्
१.२१३.११तमनुद्रुत्य सान्त्वेन परमेण धनंजयम्
निवर्तयध्वं संहृष्टा ममैषा परमा मतिः
१.२१३.१२यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम्
प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः
१.२१३.१३तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप
निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः
१.२१३.१४उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः
पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः
पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत्
१.२१३.१५अभिगम्य स राजानं विनयेन समाहितः
अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान्
१.२१३.१६तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम्
तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा
सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते
१.२१३.१७तथा बहुविधं कृष्णां विलपन्तीं धनंजयः
सान्त्वयामास भूयश्च क्षमयामास चासकृत्
१.२१३.१८सुभद्रां त्वरमाणश्च रक्तकौशेयवाससम्
पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः
१.२१३.१९साधिकं तेन रूपेण शोभमाना यशस्विनी
भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना
ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी
१.२१३.२०ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना
ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत्
१.२१३.२१प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम्
सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः
तथैव मुदिता भद्रा तामुवाचैवमस्त्विति
१.२१३.२२ततस्ते हृष्टमनसः पाण्डवेया महारथाः
कुन्ती च परमप्रीता बभूव जनमेजय
१.२१३.२३श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वपुरोत्तमम्
अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा
१.२१३.२४आजगाम विशुद्धात्मा सह रामेण केशवः
वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः
१.२१३.२५भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः
सैन्येन महता शौरिरभिगुप्तः परंतपः
१.२१३.२६तत्र दानपतिर्धीमानाजगाम महायशाः
अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः
१.२१३.२७अनाधृष्टिर्महातेजा उद्धवश्च महायशाः
साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः
१.२१३.२८सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः
प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च
१.२१३.२९चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च
सारणश्च महाबाहुर्गदश्च विदुषां वरः
१.२१३.३०एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा
आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु
१.२१३.३१ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम्
प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा
१.२१३.३२ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत्
विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम्
१.२१३.३३सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम्
चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम्
१.२१३.३४दह्यतागुरुणा चैव देशे देशे सुगन्धिना
सुसंमृष्टजनाकीर्णं वणिग्भिरुपशोभितम्
१.२१३.३५प्रतिपेदे महाबाहुः सह रामेण केशवः
वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः
१.२१३.३६संपूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः
विवेश भवनं राज्ञः पुरंदरगृहोपमम्
१.२१३.३७युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि
मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना
१.२१३.३८तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत्
भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत्
१.२१३.३९तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः
प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम्
१.२१३.४०गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत्
कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः
१.२१३.४१ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम्
हरणं वै सुभद्राया ज्ञातिदेयं महायशाः
१.२१३.४२रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम्
चतुर्युजामुपेतानां सूतैः कुशलसंमतैः
सहस्रं प्रददौ कृष्णो गवामयुतमेव च
१.२१३.४३श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम्
वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम्
ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम्
१.२१३.४४तथैवाश्वतरीणां च दान्तानां वातरंहसाम्
शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च
१.२१३.४५स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम्
स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम्
१.२१३.४६सुवर्णशतकण्ठीनामरोगाणां सुवाससाम्
परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः
१.२१३.४७कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः
मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः
१.२१३.४८गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम्
गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम्
१.२१३.४९कॢप्तानां पटुघण्टानां वराणां हेममालिनाम्
हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः
१.२१३.५०रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली
प्रीयमाणो हलधरः संबन्धप्रीतिमावहन्
१.२१३.५१स महाधनरत्नौघो वस्त्रकम्बलफेनवान्
महागजमहाग्राहः पताकाशैवलाकुलः
१.२१३.५२पाण्डुसागरमाविद्धः प्रविवेश महानदः
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत्
१.२१३.५३प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः
पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान्
१.२१३.५४ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः
विजह्रुरमरावासे नराः सुकृतिनो यथा
१.२१३.५५तत्र तत्र महापानैरुत्कृष्टतलनादितैः
यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः
१.२१३.५६एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून्
पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं पुरीम्
१.२१३.५७रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः
रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः
१.२१३.५८वासुदेवस्तु पार्थेन तत्रैव सह भारत
उवास नगरे रम्ये शक्रप्रस्थे महामनाः
व्यचरद्यमुनाकूले पार्थेन सह भारत
१.२१३.५९ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा
जयन्तमिव पौलोमी द्युतिमन्तमजीजनत्
१.२१३.६०दीर्घबाहुं महासत्त्वमृषभाक्षमरिंदमम्
सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम्
१.२१३.६१अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम्
अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम्
१.२१३.६२स सात्वत्यामतिरथः संबभूव धनंजयात्
मखे निर्मथ्यमानाद्वा शमीगर्भाद्धुताशनः
१.२१३.६३यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः
अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः
१.२१३.६४दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत्
पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः
१.२१३.६५जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः
स चापि ववृधे बालः शुक्लपक्षे यथा शशी
१.२१३.६६चतुष्पादं दशविधं धनुर्वेदमरिंदमः
अर्जुनाद्वेद वेदज्ञात्सकलं दिव्यमानुषम्
१.२१३.६७विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः
क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत्
१.२१३.६८आगमे च प्रयोगे च चक्रे तुल्यमिवात्मनः
तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनंजयः
१.२१३.६९सर्वसंहननोपेतं सर्वलक्षणलक्षितम्
दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम्
१.२१३.७०सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम्
मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम्
१.२१३.७१कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ
ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा
१.२१३.७२पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा
लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव
१.२१३.७३युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात्
अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम्
१.२१३.७४सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान्
पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा
१.२१३.७५शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम्
परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम्
१.२१३.७६सुते सोमसहस्रे तु सोमार्कसमतेजसम्
सुतसोमं महेष्वासं सुषुवे भीमसेनतः
१.२१३.७७श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना
जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत्
१.२१३.७८शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः
चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम्
१.२१३.७९ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते
सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः
१.२१३.८०एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः
अन्वजायन्त राजेन्द्र परस्परहिते रताः
१.२१३.८१जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च
चकार विधिवद्धौम्यस्तेषां भरतसत्तम
१.२१३.८२कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः
जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम्
१.२१३.८३देवगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महाबलैः
अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन्