१.२१४.१वैशंपायन उवाच
१.२१४.२इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान्
शासनाद्धृतराष्ट्रस्य राज्ञः शांतनवस्य च
१.२१४.३आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम्
पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः
१.२१४.४स समं धर्मकामार्थान्सिषेवे भरतर्षभः
त्रीनिवात्मसमान्बन्धून्बन्धुमानिव मानयन्
१.२१४.५तेषां समविभक्तानां क्षितौ देहवतामिव
बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः
१.२१४.६अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः
रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम्
१.२१४.७अधिष्ठानवती लक्ष्मीः परायणवती मतिः
बन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता
१.२१४.८भ्रातृभिः सहितो राजा चतुर्भिरधिकं बभौ
प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः
१.२१४.९तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे
बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः
१.२१४.१०धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले
प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च
१.२१४.११न तु केवलदैवेन प्रजा भावेन रेमिरे
यद्बभूव मनःकान्तं कर्मणा स चकार तत्
१.२१४.१२न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम्
भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः
१.२१४.१३स हि सर्वस्य लोकस्य हितमात्मन एव च
चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः
१.२१४.१४तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः
अवसन्पृथिवीपालांस्त्रासयन्तः स्वतेजसा
१.२१४.१५ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत्
उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति
१.२१४.१६सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन
सायाह्ने पुनरेष्यामो रोचतां ते जनार्दन
१.२१४.१७वासुदेव उवाच
१.२१४.१८कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले
सुहृज्जनवृताः पार्थ विहरेम यथासुखम्
१.२१४.१९वैशंपायन उवाच
१.२१४.२०आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत
जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः
१.२१४.२१विहारदेशं संप्राप्य नानाद्रुमवदुत्तमम्
गृहैरुच्चावचैर्युक्तं पुरंदरगृहोपमम्
१.२१४.२२भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः
माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेयपार्थयोः
१.२१४.२३आविवेशतुरापूर्णं रत्नैरुच्चावचैः शुभैः
यथोपजोषं सर्वश्च जनश्चिक्रीड भारत
१.२१४.२४वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः
यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः
१.२१४.२५द्रौपदी च सुभद्रा च वासांस्याभरणानि च
प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे
१.२१४.२६काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः
जहसुश्चापरा नार्यः पपुश्चान्या वरासवम्
१.२१४.२७रुरुदुश्चापरास्तत्र प्रजघ्नुश्च परस्परम्
मन्त्रयामासुरन्याश्च रहस्यानि परस्परम्
१.२१४.२८वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः
शब्देनापूर्यते ह स्म तद्वनं सुसमृद्धिमत्
१.२१४.२९तस्मिंस्तथा वर्तमाने कुरुदाशार्हनन्दनौ
समीपे जग्मतुः कंचिदुद्देशं सुमनोहरम्
१.२१४.३०तत्र गत्वा महात्मानौ कृष्णौ परपुरंजयौ
महार्हासनयो राजंस्ततस्तौ संनिषीदतुः
१.२१४.३१तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च
बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ
१.२१४.३२तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव
अभ्यगच्छत्तदा विप्रो वासुदेवधनंजयौ
१.२१४.३३बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः
हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः
१.२१४.३४तरुणादित्यसंकाशः कृष्णवासा जटाधरः
पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव
१.२१४.३५उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम्
अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः