१.२२१.१वैशंपायन उवाच
१.२२१.२ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः
व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम्
१.२२१.३निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी
जरिता दुःखसंतप्ता विललाप नरेश्वर
१.२२१.४अयमग्निर्दहन्कक्षमित आयाति भीषणः
जगत्संदीपयन्भीमो मम दुःखविवर्धनः
१.२२१.५इमे च मां कर्षयन्ति शिशवो मन्दचेतसः
अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम्
त्रासयंश्चायमायाति लेलिहानो महीरुहान्
१.२२१.६अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम
आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः
१.२२१.७न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे
कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम्
१.२२१.८किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम्
चिन्तयाना विमोक्षं वो नाधिगच्छामि किंचन
छादयित्वा च वो गात्रैः करिष्ये मरणं सह
१.२२१.९जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम्
सारिसृक्वः प्रजायेत पितॄणां कुलवर्धनः
१.२२१.१०स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः
इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा
१.२२१.११कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा
किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला
१.२२१.१२नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात्
एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम्
१.२२१.१३स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट्
अस्मासु हि विनष्टेषु भवितारः सुतास्तव
त्वयि मातर्विनष्टायां न नः स्यात्कुलसंततिः
१.२२१.१४अन्ववेक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः
तद्वै कर्तुं परः कालो मातरेष भवेत्तव
१.२२१.१५मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः
न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः
१.२२१.१६जरितोवाच
१.२२१.१७इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः
तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम्
१.२२१.१८ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः
एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः
१.२२१.१९तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसंचयम्
रोचतामेष वोपायो विमोक्षाय हुताशनात्
१.२२१.२०शार्ङ्गका ऊचुः
१.२२१.२१अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत्
पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम्
१.२२१.२२कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत्
कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः
१.२२१.२३बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम्
अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम्
१.२२१.२४गर्हितं मरणं नः स्यादाखुना खादता बिले
शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात्