१.२२०.१जनमेजय उवाच
१.२२०.२किमर्थं शार्ङ्गकानग्निर्न ददाह तथागते
तस्मिन्वने दह्यमाने ब्रह्मन्नेतद्वदाशु मे
१.२२०.३अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च
कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकानां न कीर्तितम्
१.२२०.४तदेतदद्भुतं ब्रह्मञ्शार्ङ्गानामविनाशनम्
कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः
१.२२०.५वैशंपायन उवाच
१.२२०.६यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते
तत्ते सर्वं यथावृत्तं कथयिष्यामि भारत
१.२२०.७धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः
आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः
१.२२०.८स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम्
स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः
१.२२०.९स गत्वा तपसः पारं देहमुत्सृज्य भारत
जगाम पितृलोकाय न लेभे तत्र तत्फलम्
१.२२०.१०स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि
पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः
१.२२०.११किमर्थमावृता लोका ममैते तपसार्जिताः
किं मया न कृतं तत्र यस्येदं कर्मणः फलम्
१.२२०.१२तत्राहं तत्करिष्यामि यदर्थमिदमावृतम्
फलमेतस्य तपसः कथयध्वं दिवौकसः
१.२२०.१३देवा ऊचुः
१.२२०.१४ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु
क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः
१.२२०.१५तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः
तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा
१.२२०.१६त इमे प्रसवस्यार्थे तव लोकाः समावृताः
प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान्
१.२२०.१७पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने
तस्मादपत्यसंताने यतस्व द्विजसत्तम
१.२२०.१८वैशंपायन उवाच
१.२२०.१९तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम्
क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत्
१.२२०.२०स चिन्तयन्नभ्यगच्छद्बहुलप्रसवान्खगान्
शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान्
१.२२०.२१तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः
तानपास्य स तत्रैव जगाम लपितां प्रति
बालान्सुतानण्डगतान्मात्रा सह मुनिर्वने
१.२२०.२२तस्मिन्गते महाभागे लपितां प्रति भारत
अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत्
१.२२०.२३तेन त्यक्तानसंत्याज्यानृषीनण्डगतान्वने
नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप
बभार चैतान्संजातान्स्ववृत्त्या स्नेहविक्लवा
१.२२०.२४ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः
मन्दपालश्चरंस्तस्मिन्वने लपितया सह
१.२२०.२५तं संकल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च बालकान्
सोऽभितुष्टाव विप्रर्षिर्ब्राह्मणो जातवेदसम्
पुत्रान्परिददद्भीतो लोकपालं महौजसम्
१.२२०.२६मन्दपाल उवाच
१.२२०.२७त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट्
त्वमन्तः सर्वभूतानां गूढश्चरसि पावक
१.२२०.२८त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः
त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन्
१.२२०.२९त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः
त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन
१.२२०.३०तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम्
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम्
१.२२०.३१त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः
१.२२०.३२जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते
तवैव कर्म विहितं भूतं सर्वं चराचरम्
१.२२०.३३त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत्
त्वयि हव्यं च कव्यं च यथावत्संप्रतिष्ठितम्
१.२२०.३४अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः
त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः
१.२२०.३५वैशंपायन उवाच
१.२२०.३६एवं स्तुतस्ततस्तेन मन्दपालेन पावकः
तुतोष तस्य नृपते मुनेरमिततेजसः
उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते
१.२२०.३७तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम्
प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय
१.२२०.३८तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः
खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया