१. आदिपर्व
१.२२४.१वैशंपायन उवाच

१.२२४.२मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा
उक्तवानप्यशीतांशुं नैव स स्म न तप्यते

१.२२४.३स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत्
कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः

१.२२४.४वर्धमाने हुतवहे वाते शीघ्रं प्रवायति
असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः

१.२२४.५कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी
भविष्यत्यसुखाविष्टा पुत्रत्राणमपश्यती

१.२२४.६कथं नु सरणेऽशक्तान्पतने च ममात्मजान्
संतप्यमाना अभितो वाशमानाभिधावती

१.२२४.७जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे
स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी

१.२२४.८लालप्यमानं तमृषिं मन्दपालं तथा वने
लपिता प्रत्युवाचेदं सासूयमिव भारत

१.२२४.९न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि
तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम्

१.२२४.१०तथाग्नौ ते परीत्ताश्च त्वया हि मम संनिधौ
प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना

१.२२४.११लोकपालोऽनृतां वाचं न तु वक्ता कथंचन
समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम्

१.२२४.१२तामेव तु ममामित्रीं चिन्तयन्परितप्यसे
ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत्

१.२२४.१३न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने
पीड्यमान उपद्रष्टुं शक्तेनात्मा कथंचन

१.२२४.१४गच्छ त्वं जरितामेव यदर्थं परितप्यसे
चरिष्याम्यहमप्येका यथा कापुरुषे तथा

१.२२४.१५मन्दपाल उवाच

१.२२४.१६नाहमेवं चरे लोके यथा त्वमभिमन्यसे
अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम

१.२२४.१७भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः
अवमन्येत तं लोको यथेच्छसि तथा कुरु

१.२२४.१८एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान्
द्वेष्यं हि हृदि संतापं जनयत्यशिवं मम

१.२२४.१९वैशंपायन उवाच

१.२२४.२०तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः
जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी

१.२२४.२१सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः
रोरूयमाणा कृपणा सुतान्दृष्टवती वने

१.२२४.२२अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः
एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत

१.२२४.२३ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत
अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः

१.२२४.२४लालप्यमानमेकैकं जरितां च पुनः पुनः
नोचुस्ते वचनं किंचित्तमृषिं साध्वसाधु वा

१.२२४.२५मन्दपाल उवाच

१.२२४.२६ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः
मध्यमः कतमः पुत्रः कनिष्ठः कतमश्च ते

१.२२४.२७एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे
कृतवानस्मि हव्याशे नैव शान्तिमितो लभे

१.२२४.२८जरितोवाच

१.२२४.२९किं ते ज्येष्ठे सुते कार्यं किमनन्तरजेन वा
किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि

१.२२४.३०यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा
तामेव लपितां गच्छ तरुणीं चारुहासिनीम्

१.२२४.३१मन्दपाल उवाच

१.२२४.३२न स्त्रीणां विद्यते किंचिदन्यत्र पुरुषान्तरात्
सापत्नकमृते लोके भवितव्यं हि तत्तथा

१.२२४.३३सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता
अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम्

१.२२४.३४विशुद्धभावमत्यन्तं सदा प्रियहिते रतम्
सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम्

१.२२४.३५अपध्यानेन सा तेन धूमारुणसमप्रभा
लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव लक्ष्यते

१.२२४.३६अपत्यहेतोः संप्राप्तं तथा त्वमपि मामिह
इष्टमेवंगते हित्वा सा तथैव च वर्तसे

१.२२४.३७नैव भार्येति विश्वासः कार्यः पुंसा कथंचन
न हि कार्यमनुध्याति भार्या पुत्रवती सती

१.२२४.३८वैशंपायन उवाच

१.२२४.३९ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे
स च तानात्मजान्राजन्नाश्वासयितुमारभत्