१.२२५.१मन्दपाल उवाच
१.२२५.२युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया
अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम्
१.२२५.३अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः
युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः
१.२२५.४न संतापो हि वः कार्यः पुत्रका मरणं प्रति
ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः
१.२२५.५वैशंपायन उवाच
१.२२५.६एवमाश्वास्य पुत्रान्स भार्यां चादाय भारत
मन्दपालस्ततो देशादन्यं देशं जगाम ह
१.२२५.७भगवानपि तिग्मांशुः समिद्धं खाण्डवं वनम्
ददाह सह कृष्णाभ्यां जनयञ्जगतोऽभयम्
१.२२५.८वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः
अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम्
१.२२५.९ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः
मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम्
१.२२५.१०कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम्
वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान्
१.२२५.११पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः
ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह
१.२२५.१२यदा प्रसन्नो भगवान्महादेवो भविष्यति
तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः
१.२२५.१३अहमेव च तं कालं वेत्स्यामि कुरुनन्दन
तपसा महता चापि दास्यामि तव तान्यहम्
१.२२५.१४आग्नेयानि च सर्वाणि वायव्यानि तथैव च
मदीयानि च सर्वाणि ग्रहीष्यसि धनंजय
१.२२५.१५वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम्
ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा
१.२२५.१६दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः
हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः
१.२२५.१७पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम्
अहानि पञ्च चैकं च विरराम सुतर्पितः
१.२२५.१८जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च
युक्तः परमया प्रीत्या तावुवाच विशां पते
१.२२५.१९युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम्
अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम्
१.२२५.२०एवं तौ समनुज्ञातौ पावकेन महात्मना
अर्जुनो वासुदेवश्च दानवश्च मयस्तथा
१.२२५.२१परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ
रमणीये नदीकूले सहिताः समुपाविशन्