१.२८.१सूत उवाच
१.२८.२ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे
गरुत्मान्पक्षिराट्तूर्णं संप्राप्तो विबुधान्प्रति
१.२८.३तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः
परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि
१.२८.४तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः
भौवनः सुमहावीर्यः सोमस्य परिरक्षिता
१.२८.५स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः
मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि
१.२८.६रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः
कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्
१.२८.७तेनावकीर्णा रजसा देवा मोहमुपागमन्
न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः
१.२८.८एवं संलोडयामास गरुडस्त्रिदिवालयम्
पक्षतुण्डप्रहारैश्च देवान्स विददार ह
१.२८.९ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत्
विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत
१.२८.१०अथ वायुरपोवाह तद्रजस्तरसा बली
ततो वितिमिरे जाते देवाः शकुनिमार्दयन्
१.२८.११ननाद चोच्चैर्बलवान्महामेघरवः खगः
वध्यमानः सुरगणैः सर्वभूतानि भीषयन्
उत्पपात महावीर्यः पक्षिराट्परवीरहा
१.२८.१२तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्
वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन्
१.२८.१३पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः
क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः
१.२८.१४नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः
कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत
१.२८.१५विनर्दन्निव चाकाशे वैनतेयः प्रतापवान्
पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान्
१.२८.१६ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः
नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु
१.२८.१७साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्
प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः
१.२८.१८दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम्
मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम्
१.२८.१९अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा
क्रथनेन च शूरेण तपनेन च खेचरः
१.२८.२०उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा
प्ररुजेन च संयुद्धं चकार प्रलिहेन च
१.२८.२१तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः
युगान्तकाले संक्रुद्धः पिनाकीव महाबलः
१.२८.२२महावीर्या महोत्साहास्तेन ते बहुधा क्षताः
रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः
१.२८.२३तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्
अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत
१.२८.२४आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम्
दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम्
१.२८.२५ततो नवत्या नवतीर्मुखानां; कृत्वा तरस्वी गरुडो महात्मा
नदीः समापीय मुखैस्ततस्तैः; सुशीघ्रमागम्य पुनर्जवेन
१.२८.२६ज्वलन्तमग्निं तममित्रतापनः; समास्तरत्पत्ररथो नदीभिः
ततः प्रचक्रे वपुरन्यदल्पं; प्रवेष्टुकामोऽग्निमभिप्रशाम्य