१. आदिपर्व
१.२७.१शौनक उवाच

१.२७.२कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज
तपसा वालखिल्यानां संभूतो गरुडः कथम्

१.२७.३कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः
अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम्

१.२७.४कथं च कामचारी स कामवीर्यश्च खेचरः
एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते

१.२७.५सूत उवाच

१.२७.६विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि
शृणु मे वदतः सर्वमेतत्संक्षेपतो द्विज

१.२७.७यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः
साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल

१.२७.८तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह
मुनयो वालखिल्याश्च ये चान्ये देवतागणाः

१.२७.९शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम्
समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः

१.२७.१०अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरपर्वणः
पलाशवृन्तिकामेकां सहितान्वहतः पथि

१.२७.११प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान्
क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके

१.२७.१२तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरंदरः
अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च

१.२७.१३तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः
आरेभिरे महत्कर्म तदा शक्रभयंकरम्

१.२७.१४जुहुवुस्ते सुतपसो विधिवज्जातवेदसम्
मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु

१.२७.१५कामवीर्यः कामगमो देवराजभयप्रदः
इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः

१.२७.१६इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः
तपसो नः फलेनाद्य दारुणः संभवत्विति

१.२७.१७तद्बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः
जगाम शरणं तत्र कश्यपं संशितव्रतम्

१.२७.१८तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः
वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत

१.२७.१९एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः
तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः

१.२७.२०अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः
इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः

१.२७.२१न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः
भवतां च न मिथ्यायं संकल्पो मे चिकीर्षितः

१.२७.२२भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान्
प्रसादः क्रियतां चैव देवराजस्य याचतः

१.२७.२३एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः
प्रत्यूचुरभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम्

१.२७.२४इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः

१.२७.२५तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम्
तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि

१.२७.२६एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा
विनता नाम कल्याणी पुत्रकामा यशस्विनी

१.२७.२७तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः
उपचक्राम भर्तारं तामुवाचाथ कश्यपः

१.२७.२८आरम्भः सफलो देवि भवितायं तवेप्सितः
जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ

१.२७.२९तपसा वालखिल्यानां मम संकल्पजौ तथा
भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ

१.२७.३०उवाच चैनां भगवान्मारीचः पुनरेव ह
धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः

१.२७.३१एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति
लोकसंभावितो वीरः कामवीर्यो विहंगमः

१.२७.३२शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः
त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः

१.२७.३३नैताभ्यां भविता दोषः सकाशात्ते पुरंदर
व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि

१.२७.३४न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः
न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः

१.२७.३५एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम्
विनता चापि सिद्धार्था बभूव मुदिता तदा

१.२७.३६जनयामास पुत्रौ द्वावरुणं गरुडं तथा
अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः

१.२७.३७पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत
तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन