१. आदिपर्व
१.३०.१गरुड उवाच

१.३०.२सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर
बलं तु मम जानीहि महच्चासह्यमेव च

१.३०.३कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्
गुणसंकीर्तनं चापि स्वयमेव शतक्रतो

१.३०.४सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया
न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः

१.३०.५सपर्वतवनामुर्वीं ससागरवनामिमाम्
पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम्

१.३०.६सर्वान्संपिण्डितान्वापि लोकान्सस्थाणुजङ्गमान्
वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम्

१.३०.७सूत उवाच

१.३०.८इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः
आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः

१.३०.९प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम्
न कार्यं तव सोमेन मम सोमः प्रदीयताम्
अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम्

१.३०.१०गरुड उवाच

१.३०.११किंचित्कारणमुद्दिश्य सोमोऽयं नीयते मया
न दास्यामि समादातुं सोमं कस्मैचिदप्यहम्

१.३०.१२यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम्
त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर

१.३०.१३शक्र उवाच

१.३०.१४वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज
यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम

१.३०.१५सूत उवाच

१.३०.१६इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन्
स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः

१.३०.१७ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम्
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः

१.३०.१८तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः
हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम्

१.३०.१९आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम्
अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत्

१.३०.२०इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः
स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः

१.३०.२१अदासी चैव मातेयमद्यप्रभृति चास्तु मे
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम्

१.३०.२२ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः

१.३०.२३अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा
स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः

१.३०.२४तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत्
सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा

१.३०.२५ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा
अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः

१.३०.२६ततः सुपर्णः परमप्रहृष्टवा;न्विहृत्य मात्रा सह तत्र कानने
भुजंगभक्षः परमार्चितः खगै;रहीनकीर्तिर्विनतामनन्दयत्

१.३०.२७इमां कथां यः शृणुयान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि
असंशयं त्रिदिवमियात्स पुण्यभा;ङ्महात्मनः पतगपतेः प्रकीर्तनात्