१. आदिपर्व
१.३१.१शौनक उवाच

१.३१.२भुजंगमानां शापस्य मात्रा चैव सुतेन च
विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन

१.३१.३वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा
नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः

१.३१.४पन्नगानां तु नामानि न कीर्तयसि सूतज
प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम्

१.३१.५सूत उवाच

१.३१.६बहुत्वान्नामधेयानि भुजगानां तपोधन
न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु

१.३१.७शेषः प्रथमतो जातो वासुकिस्तदनन्तरम्
ऐरावतस्तक्षकश्च कर्कोटकधनंजयौ

१.३१.८कालियो मणिनागश्च नागश्चापूरणस्तथा
नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः

१.३१.९नीलानीलौ तथा नागौ कल्माषशबलौ तथा
आर्यकश्चादिकश्चैव नागश्च शलपोतकः

१.३१.१०सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः
आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा

१.३१.११निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा
बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः

१.३१.१२कम्बलाश्वतरौ चापि नागः कालीयकस्तथा
वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ

१.३१.१३नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः
क्षेमकश्च महानागो नागः पिण्डारकस्तथा

१.३१.१४करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः
मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः

१.३१.१५अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा
कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा

१.३१.१६विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान्
हस्तिभद्रः पिठरको मुखरः कोणवासनः

१.३१.१७कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः
कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा
कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ

१.३१.१८एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम
बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः

१.३१.१९एतेषां प्रसवो यश्च प्रसवस्य च संततिः
असंख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम

१.३१.२०बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च
अशक्यान्येव संख्यातुं भुजगानां तपोधन