१. आदिपर्व
१.५.१शौनक उवाच

१.५.२पुराणमखिलं तात पिता तेऽधीतवान्पुरा
कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे

१.५.३पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम्
कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव

१.५.४तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम्
कथयस्व कथामेतां कल्याः स्म श्रवणे तव

१.५.५सूत उवाच

१.५.६यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः
वैशंपायनविप्राद्यैस्तैश्चापि कथितं पुरा

१.५.७यदधीतं च पित्रा मे सम्यक्चैव ततो मया
तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः
पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन

१.५.८इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने
निगदामि कथायुक्तं पुराणाश्रयसंयुतम्

१.५.९भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः
च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत

१.५.१०रुरोरपि सुतो जज्ञे शुनको वेदपारगः
प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात्

१.५.११तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः
धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः

१.५.१२शौनक उवाच

१.५.१३सूतपुत्र यथा तस्य भार्गवस्य महात्मनः
च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः

१.५.१४सूत उवाच

१.५.१५भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता
तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः

१.५.१६तस्मिन्गर्भे संभृतेऽथ पुलोमायां भृगूद्वह
समये समशीलिन्यां धर्मपत्न्यां यशस्विनः

१.५.१७अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे
आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह

१.५.१८तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम्
हृच्छयेन समाविष्टो विचेताः समपद्यत

१.५.१९अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना
न्यमन्त्रयत वन्येन फलमूलादिना तदा

१.५.२०तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम्
दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम्

१.५.२१अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम्
तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा

१.५.२२शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै
सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते

१.५.२३मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी
पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे

१.५.२४सेयं यदि वरारोहा भृगोर्भार्या रहोगता
तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम्

१.५.२५मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति
मत्पूर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम्

१.५.२६तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम्
शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत

१.५.२७त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा
साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः

१.५.२८मत्पूर्वभार्यापहृता भृगुणानृतकारिणा
सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि

१.५.२९श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात्
जातवेदः पश्यतस्ते वद सत्यां गिरं मम

१.५.३०तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम्
भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः