१.५३.१सूत उवाच
१.५३.२इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः
तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह
१.५३.३इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत
ततश्चिन्तापरो राजा बभूव जनमेजयः
१.५३.४हूयमाने भृशं दीप्ते विधिवत्पावके तदा
न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः
१.५३.५शौनक उवाच
१.५३.६किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम्
न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः
१.५३.७सूत उवाच
१.५३.८तमिन्द्रहस्ताद्विस्रस्तं विसंज्ञं पन्नगोत्तमम्
आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत्
१.५३.९वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता
यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः
१.५३.१०ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम्
काममेतद्भवत्वेवं यथास्तीकस्य भाषितम्
१.५३.११समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः
प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत्
१.५३.१२ततो हलहलाशब्दः प्रीतिजः समवर्तत
आस्तीकस्य वरे दत्ते तथैवोपरराम च
१.५३.१३स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह
प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः
१.५३.१४ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः
तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः
१.५३.१५लोहिताक्षाय सूताय तथा स्थपतये विभुः
येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम्
१.५३.१६निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु
ततश्चकारावभृथं विधिदृष्टेन कर्मणा
१.५३.१७आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम्
राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम्
१.५३.१८पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत्
भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ
१.५३.१९तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः
कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम्
१.५३.२०स गत्वा परमप्रीतो मातरं मातुलं च तम्
अभिगम्योपसंगृह्य यथावृत्तं न्यवेदयत्
१.५३.२१एतच्छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन्पन्नगा वीतमोहाः
तेऽऽस्तीके वै प्रीतिमन्तो बभूवु;रूचुश्चैनं वरमिष्टं वृणीष्व
१.५३.२२भूयो भूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामोऽद्य विद्वन्
प्रीता वयं मोक्षिताश्चैव सर्वे; कामं किं ते करवामोऽद्य वत्स
१.५३.२३आस्तीक उवाच
१.५३.२४सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश्चेतरेऽपि
धर्माख्यानं ये वदेयुर्ममेदं; तेषां युष्मद्भ्यो नैव किंचिद्भयं स्यात्
१.५३.२५सूत उवाच
१.५३.२६तैश्चाप्युक्तो भागिनेयः प्रसन्नै;रेतत्सत्यं काममेवं चरन्तः
प्रीत्या युक्ता ईप्सितं सर्वशस्ते; कर्तारः स्म प्रवणा भागिनेय
१.५३.२७जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः
आस्तीकः सत्यसंधो मां पन्नगेभ्योऽभिरक्षतु
१.५३.२८असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत्
दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत्
१.५३.२९सूत उवाच
१.५३.३०मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः
जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान्
१.५३.३१इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव
यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित्
१.५३.३२श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम्
आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः
१.५३.३३शौनक उवाच
१.५३.३४भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत्
आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते
१.५३.३५प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन
यां कथां व्याससंपन्नां तां च भूयः प्रचक्ष्व मे
१.५३.३६तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम्
कर्मान्तरेषु विधिवत्सदस्यानां महाकवे
१.५३.३७या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम्
त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः
१.५३.३८सूत उवाच
१.५३.३९कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः
व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत्
१.५३.४०शौनक उवाच
१.५३.४१महाभारतमाख्यानं पाण्डवानां यशस्करम्
जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा
१.५३.४२श्रावयामास विधिवत्तदा कर्मान्तरेषु सः
तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम्
१.५३.४३मनःसागरसंभूतां महर्षेः पुण्यकर्मणः
कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज
१.५३.४४सूत उवाच
१.५३.४५हन्त ते कथयिष्यामि महदाख्यानमुत्तमम्
कृष्णद्वैपायनमतं महाभारतमादितः
१.५३.४६तज्जुषस्वोत्तममते कथ्यमानं मया द्विज
शंसितुं तन्मनोहर्षो ममापीह प्रवर्तते