१. आदिपर्व
१.५२.१शौनक उवाच

१.५२.२ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने
तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज

१.५२.३सूत उवाच

१.५२.४सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च
न शक्यं परिसंख्यातुं बहुत्वाद्वेदवित्तम

१.५२.५यथास्मृति तु नामानि पन्नगानां निबोध मे
उच्यमानानि मुख्यानां हुतानां जातवेदसि

१.५२.६वासुकेः कुलजांस्तावत्प्राधान्येन निबोध मे
नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान्

१.५२.७कोटिको मानसः पूर्णः सहः पैलो हलीसकः
पिच्छिलः कोणपश्चक्रः कोणवेगः प्रकालनः

१.५२.८हिरण्यवाहः शरणः कक्षकः कालदन्तकः
एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम्

१.५२.९तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान्
पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः

१.५२.१०उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः
शिलीशलकरो मूकः सुकुमारः प्रवेपनः

१.५२.११मुद्गरः शशरोमा च सुमना वेगवाहनः
एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम्

१.५२.१२पारावतः पारियात्रः पाण्डरो हरिणः कृशः
विहंगः शरभो मोदः प्रमोदः संहताङ्गदः

१.५२.१३ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्
कौरव्यकुलजान्नागाञ्शृणु मे द्विजसत्तम

१.५२.१४ऐण्डिलः कुण्डलो मुण्डो वेणिस्कन्धः कुमारकः
बाहुकः शृङ्गवेगश्च धूर्तकः पातपातरौ

१.५२.१५धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम्
कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान्

१.५२.१६शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ
पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः

१.५२.१७आमाहठः कोमठकः श्वसनो मानवो वटः
भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारगः

१.५२.१८ऋषभो वेगवान्नाम पिण्डारकमहाहनू
रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटराक्षसौ

१.५२.१९वराहको वारणकः सुमित्रश्चित्रवेदिकः
पराशरस्तरुणको मणिस्कन्धस्तथारुणिः

१.५२.२०इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः
प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः

१.५२.२१एतेषां पुत्रपौत्रास्तु प्रसवस्य च संततिः
न शक्याः परिसंख्यातुं ये दीप्तं पावकं गताः

१.५२.२२सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे
कालानलविषा घोरा हुताः शतसहस्रशः

१.५२.२३महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः
योजनायामविस्तारा द्वियोजनसमायताः

१.५२.२४कामरूपाः कामगमा दीप्तानलविषोल्बणाः
दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः