१. आदिपर्व
१.५५.१वैशंपायन उवाच

१.५५.२गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः
संपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान्

१.५५.३महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः

१.५५.४श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम्
गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम्

१.५५.५शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत्
राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च

१.५५.६यथा च युद्धमभवत्पृथिवीक्षयकारकम्
तत्तेऽहं संप्रवक्ष्यामि पृच्छते भरतर्षभ

१.५५.७मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्
नचिरादिव विद्वांसो वेदे धनुषि चाभवन्

१.५५.८तांस्तथा रूपवीर्यौजःसंपन्नान्पौरसंमतान्
नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः

१.५५.९ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः
तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन्

१.५५.१०ददावथ विषं पापो भीमाय धृतराष्ट्रजः
जरयामास तद्वीरः सहान्नेन वृकोदरः

१.५५.११प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम्
तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत्

१.५५.१२यदा प्रबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्
उदतिष्ठन्महाराज भीमसेनो गतव्यथः

१.५५.१३आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा

१.५५.१४तेषां तु विप्रकारेषु तेषु तेषु महामतिः
मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत्

१.५५.१५स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः
पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः

१.५५.१६यदा तु विविधोपायैः संवृतैर्विवृतैरपि
नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान्

१.५५.१७ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः
धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत्

१.५५.१८तत्र तान्वासयामास पाण्डवानमितौजसः
अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा

१.५५.१९विदुरस्यैव वचनात्खनित्री विहिता ततः
मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात्

१.५५.२०ततो महावने घोरे हिडिम्बं नाम राक्षसम्
भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः

१.५५.२१अथ संधाय ते वीरा एकचक्रां व्रजंस्तदा
ब्रह्मरूपधरा भूत्वा मात्रा सह परंतपाः

१.५५.२२तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम्
ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः

१.५५.२३ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः
विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः

१.५५.२४त उक्ता धृतराष्ट्रेण राज्ञा शांतनवेन च
भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति
अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः

१.५५.२५तस्माज्जनपदोपेतं सुविभक्तमहापथम्
वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः

१.५५.२६तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः
नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः

१.५५.२७तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून्
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः

१.५५.२८एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः
अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा

१.५५.२९अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः
उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा

१.५५.३०दक्षिणां सहदेवस्तु विजिग्ये परवीरहा
एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुंधराम्

१.५५.३१पञ्चभिः सूर्यसंकाशैः सूर्येण च विराजता
षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः

१.५५.३२ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः
वनं प्रस्थापयामास भ्रातरं वै धनंजयम्

१.५५.३३स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत्
ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन

१.५५.३४लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्
अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम्

१.५५.३५सा शचीव महेन्द्रेण श्रीः कृष्णेनेव संगता
सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह

१.५५.३६अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम्
बीभत्सुर्वासुदेवेन सहितो नृपसत्तम

१.५५.३७नातिभारो हि पार्थस्य केशवेनाभवत्सह
व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव

१.५५.३८पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्
इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम्

१.५५.३९मोक्षयामास बीभत्सुर्मयं तत्र महासुरम्
स चकार सभां दिव्यां सर्वरत्नसमाचिताम्

१.५५.४०तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः
ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम्

१.५५.४१वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च
अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम्

१.५५.४२ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु
नालभन्त महाराज ततो युद्धमवर्तत

१.५५.४३ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम्
राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः

१.५५.४४एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम्
भेदो राज्यविनाशश्च जयश्च जयतां वर