१.५६.१जनमेजय उवाच
१.५६.२कथितं वै समासेन त्वया सर्वं द्विजोत्तम
महाभारतमाख्यानं कुरूणां चरितं महत्
१.५६.३कथां त्वनघ चित्रार्थामिमां कथयति त्वयि
विस्तरश्रवणे जातं कौतूहलमतीव मे
१.५६.४स भवान्विस्तरेणेमां पुनराख्यातुमर्हति
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्
१.५६.५न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः
अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः
१.५६.६किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः
प्रयुज्यमानान्संक्लेशान्क्षान्तवन्तो दुरात्मनाम्
१.५६.७कथं नागायुतप्राणो बाहुशाली वृकोदरः
परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम
१.५६.८कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः
शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा
१.५६.९कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा
अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः
१.५६.१०कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित्
अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः
१.५६.११कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः
अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनंजयः
१.५६.१२एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन
यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः
१.५६.१३वैशंपायन उवाच
१.५६.१४महर्षेः सर्वलोकेषु पूजितस्य महात्मनः
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः
१.५६.१५इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम्
सत्यवत्यात्मजेनेह व्याख्यातममितौजसा
१.५६.१६य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः
ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम्
१.५६.१७इदं हि वेदैः समितं पवित्रमपि चोत्तमम्
श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम्
१.५६.१८अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते
इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी
१.५६.१९अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान्
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते
१.५६.२०भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम्
इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः
१.५६.२१जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा
महीं विजयते सर्वां शत्रूंश्चापि पराजयेत्
१.५६.२२इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत्
महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा
१.५६.२३अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम्
मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना
१.५६.२४संप्रत्याचक्षते चैव आख्यास्यन्ति तथापरे
पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः
१.५६.२५शरीरेण कृतं पापं वाचा च मनसैव च
सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा
१.५६.२६भारतानां महज्जन्म शृण्वतामनसूयताम्
नास्ति व्याधिभयं तेषां परलोकभयं कुतः
१.५६.२७धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च
कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा
१.५६.२८कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम्
१.५६.२९यथा समुद्रो भगवान्यथा च हिमवान्गिरिः
ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते
१.५६.३०य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु
धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति
१.५६.३१यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः
अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितॄनपि
१.५६.३२अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन्
तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते
१.५६.३३भारतानां महज्जन्म महाभारतमुच्यते
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते
१.५६.३४त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः
महाभारतमाख्यानं कृतवानिदमुत्तमम्
१.५६.३५धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्