१.६२.१जनमेजय उवाच
१.६२.२त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम्
अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा
१.६२.३इमं तु भूय इच्छामि कुरूणां वंशमादितः
कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ
१.६२.४वैशंपायन उवाच
१.६२.५पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान्
पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम
१.६२.६चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः
समुद्रावरणांश्चापि देशान्स समितिंजयः
१.६२.७आम्लेच्छाटविकान्सर्वान्स भुङ्क्ते रिपुमर्दनः
रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान्
१.६२.८न वर्णसंकरकरो नाकृष्यकरकृज्जनः
न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति
१.६२.९धर्म्यां रतिं सेवमाना धर्मार्थावभिपेदिरे
तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे
१.६२.१०नासीच्चोरभयं तात न क्षुधाभयमण्वपि
नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे
१.६२.११स्वैर्धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः
तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः
१.६२.१२कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च
सर्वरत्नसमृद्धा च मही वसुमती तदा
१.६२.१३स चाद्भुतमहावीर्यो वज्रसंहननो युवा
उद्यम्य मन्दरं दोर्भ्यां हरेत्सवनकाननम्
१.६२.१४धनुष्यथ गदायुद्धे त्सरुप्रहरणेषु च
नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः
१.६२.१५बले विष्णुसमश्चासीत्तेजसा भास्करोपमः
अक्षुब्धत्वेऽर्णवसमः सहिष्णुत्वे धरासमः
१.६२.१६संमतः स महीपालः प्रसन्नपुरराष्ट्रवान्
भूयो धर्मपरैर्भावैर्विदितं जनमावसत्