१. आदिपर्व
१.६१.१जनमेजय उवाच

१.६१.२देवानां दानवानां च यक्षाणामथ रक्षसाम्
अन्येषां चैव भूतानां सर्वेषां भगवन्नहम्

१.६१.३श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम्
जन्म कर्म च भूतानामेतेषामनुपूर्वशः

१.६१.४वैशंपायन उवाच

१.६१.५मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः
प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः

१.६१.६विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः
जरासंध इति ख्यातः स आसीन्मनुजर्षभः

१.६१.७दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः
स जज्ञे मानुषे लोके शिशुपालो नरर्षभः

१.६१.८संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः
स शल्य इति विख्यातो जज्ञे बाह्लीकपुंगवः

१.६१.९अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः
धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः

१.६१.१०यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः
द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः

१.६१.११बाष्कलो नाम यस्तेषामासीदसुरसत्तमः
भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः

१.६१.१२अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्
तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः

१.६१.१३पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः
केकयेषु महात्मानः पार्थिवर्षभसत्तमाः

१.६१.१४केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान्
अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्नृपः

१.६१.१५स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः
उग्रसेन इति ख्यात उग्रकर्मा नराधिपः

१.६१.१६यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः
अशोको नाम राजासीन्महावीर्यपराक्रमः

१.६१.१७तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः
दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः

१.६१.१८वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः
दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः

१.६१.१९अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः
स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः

१.६१.२०अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः
रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः

१.६१.२१सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः
बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः

१.६१.२२तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः
सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः

१.६१.२३इसृपा नाम यस्तेषामसुराणां बलाधिकः
पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः

१.६१.२४एकचक्र इति ख्यात आसीद्यस्तु महासुरः
प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ

१.६१.२५विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः
चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः

१.६१.२६हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः
सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः

१.६१.२७अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः
बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ

१.६१.२८निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः
मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः

१.६१.२९निकुम्भस्त्वजितः संख्ये महामतिरजायत
भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः

१.६१.३०शरभो नाम यस्तेषां दैतेयानां महासुरः
पौरवो नाम राजर्षिः स बभूव नरेष्विह

१.६१.३१द्वितीयः शलभस्तेषामसुराणां बभूव यः
प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः

१.६१.३२चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः
ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः

१.६१.३३मृतपा इति विख्यातो य आसीदसुरोत्तमः
पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम

१.६१.३४गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः
द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः

१.६१.३५मयूर इति विख्यातः श्रीमान्यस्तु महासुरः
स विश्व इति विख्यातो बभूव पृथिवीपतिः

१.६१.३६सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः
कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः

१.६१.३७चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः
शुनको नाम राजर्षिः स बभूव नराधिपः

१.६१.३८विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः
जानकिर्नाम राजर्षिः स बभूव नराधिपः

१.६१.३९दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः
काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः

१.६१.४०ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम्
क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः

१.६१.४१अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः
विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः

१.६१.४२द्वितीयो विक्षराद्यस्तु नराधिप महासुरः
पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः

१.६१.४३बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः
पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः

१.६१.४४वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः
मणिमान्नाम राजर्षिः स बभूव नराधिपः

१.६१.४५क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः
दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ

१.६१.४६क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः
दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः

१.६१.४७कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः
जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः

१.६१.४८मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः
अष्टानां प्रवरस्तेषां कालेयानां महासुरः

१.६१.४९द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः
अपराजित इत्येव स बभूव नराधिपः

१.६१.५०तृतीयस्तु महाराज महाबाहुर्महासुरः
निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः

१.६१.५१तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः
श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः

१.६१.५२पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः
महौजा इति विख्यातो बभूवेह परंतपः

१.६१.५३षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः
अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः

१.६१.५४समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात्
विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित्

१.६१.५५बृहन्नामाष्टमस्तेषां कालेयानां परंतपः
बभूव राजन्धर्मात्मा सर्वभूतहिते रतः

१.६१.५६गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः
ततः संजज्ञिरे वीराः क्षिताविह नराधिपाः

१.६१.५७नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा
सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः

१.६१.५८क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः
वीरधामा च कौरव्य भूमिपालश्च नामतः

१.६१.५९दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः
रुक्मी च नृपशार्दूलो राजा च जनमेजयः

१.६१.६०आषाढो वायुवेगश्च भूरितेजास्तथैव च
एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः

१.६१.६१कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च
श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च

१.६१.६२क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः
मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः

१.६१.६३गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ
जातः पुरा महाराज महाकीर्तिर्महाबलः

१.६१.६४यस्त्वासीद्देवको नाम देवराजसमद्युतिः
स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः

१.६१.६५बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत
अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम्

१.६१.६६धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः
बृहत्कीर्तिर्महातेजाः संजज्ञे मनुजेष्विह

१.६१.६७धनुर्वेदे च वेदे च यं तं वेदविदो विदुः
वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम्

१.६१.६८महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत
एकत्वमुपपन्नानां जज्ञे शूरः परंतपः

१.६१.६९अश्वत्थामा महावीर्यः शत्रुपक्षक्षयंकरः
वीरः कमलपत्राक्षः क्षितावासीन्नराधिप

१.६१.७०जज्ञिरे वसवस्त्वष्टौ गङ्गायां शंतनोः सुताः
वसिष्ठस्य च शापेन नियोगाद्वासवस्य च

१.६१.७१तेषामवरजो भीष्मः कुरूणामभयंकरः
मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयंकरः

१.६१.७२जामदग्न्येन रामेण यः स सर्वविदां वरः
अयुध्यत महातेजा भार्गवेण महात्मना

१.६१.७३यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ
रुद्राणां तं गणाद्विद्धि संभूतमतिपौरुषम्

१.६१.७४शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः
द्वापरं विद्धि तं राजन्संभूतमरिमर्दनम्

१.६१.७५सात्यकिः सत्यसंधस्तु योऽसौ वृष्णिकुलोद्वहः
पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः

१.६१.७६द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात्
मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः

१.६१.७७ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम्
जातमप्रतिकर्माणं क्षत्रियर्षभसत्तमम्

१.६१.७८मरुतां तु गणाद्विद्धि संजातमरिमर्दनम्
विराटं नाम राजर्षिं परराष्ट्रप्रतापनम्

१.६१.७९अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः
स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः

१.६१.८०धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि
दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः
मातुर्दोषादृषेः कोपादन्ध एव व्यजायत

१.६१.८१अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम्
विदुरं विद्धि लोकेऽस्मिञ्जातं बुद्धिमतां वरम्

१.६१.८२कलेरंशात्तु संजज्ञे भुवि दुर्योधनो नृपः
दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः

१.६१.८३जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः
यः सर्वां घातयामास पृथिवीं पुरुषाधमः
येन वैरं समुद्दीप्तं भूतान्तकरणं महत्

१.६१.८४पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह
शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम्

१.६१.८५दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः
दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ

१.६१.८६धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम्
भीमसेनं तु वातस्य देवराजस्य चार्जुनम्

१.६१.८७अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि
नकुलः सहदेवश्च सर्वलोकमनोहरौ

१.६१.८८यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान्
अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत्

१.६१.८९अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम्
शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम्

१.६१.९०द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ
विश्वेदेवगणान्राजंस्तान्विद्धि भरतर्षभ

१.६१.९१आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः
दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम्

१.६१.९२यस्तु नारायणो नाम देवदेवः सनातनः
तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान्

१.६१.९३शेषस्यांशस्तु नागस्य बलदेवो महाबलः
सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम्

१.६१.९४एवमन्ये मनुष्येन्द्र बहवोंऽशा दिवौकसाम्
जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः

१.६१.९५गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः
तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च

१.६१.९६तानि षोडश देवीनां सहस्राणि नराधिप
बभूवुर्मानुषे लोके नारायणपरिग्रहः

१.६१.९७श्रियस्तु भागः संजज्ञे रत्यर्थं पृथिवीतले
द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता

१.६१.९८नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी
पद्मायताक्षी सुश्रोणी असितायतमूर्धजा

१.६१.९९सर्वलक्षणसंपन्ना वैडूर्यमणिसंनिभा
पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः

१.६१.१००सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते
कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा

१.६१.१०१इति देवासुराणां ते गन्धर्वाप्सरसां तथा
अंशावतरणं राजन्राक्षसानां च कीर्तितम्

१.६१.१०२ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः
महात्मानो यदूनां च ये जाता विपुले कुले

१.६१.१०३धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम्
इदमंशावतरणं श्रोतव्यमनसूयता

१.६१.१०४अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम्
प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति