१. आदिपर्व
१.६५.१वैशंपायन उवाच

१.६५.२ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान्
नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम्

१.६५.३सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम्
उवाच क इहेत्युच्चैर्वनं संनादयन्निव

१.६५.४श्रुत्वाथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी
निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी

१.६५.५सा तं दृष्ट्वैव राजानं दुःषन्तमसितेक्षणा
स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च

१.६५.६आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि
पप्रच्छानामयं राजन्कुशलं च नराधिपम्

१.६५.७यथावदर्चयित्वा सा पृष्ट्वा चानामयं तदा
उवाच स्मयमानेव किं कार्यं क्रियतामिति

१.६५.८तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम्
दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः

१.६५.९आगतोऽहं महाभागमृषिं कण्वमुपासितुम्
क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने

१.६५.१०शकुन्तलोवाच

१.६५.११गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात्
मुहूर्तं संप्रतीक्षस्व द्रक्ष्यस्येनमिहागतम्

१.६५.१२वैशंपायन उवाच

१.६५.१३अपश्यमानस्तमृषिं तया चोक्तस्तथा नृपः
तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम्

१.६५.१४विभ्राजमानां वपुषा तपसा च दमेन च
रूपयौवनसंपन्नामित्युवाच महीपतिः

१.६५.१५कासि कस्यासि सुश्रोणि किमर्थं चागता वनम्
एवंरूपगुणोपेता कुतस्त्वमसि शोभने

१.६५.१६दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः
इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने

१.६५.१७एवमुक्ता तदा कन्या तेन राज्ञा तदाश्रमे
उवाच हसती वाक्यमिदं सुमधुराक्षरम्

१.६५.१८कण्वष्याहं भगवतो दुःषन्त दुहिता मता
तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः

१.६५.१९दुःषन्त उवाच

१.६५.२०ऊर्ध्वरेता महाभागो भगवाँल्लोकपूजितः
चलेद्धि वृत्ताद्धर्मोऽपि न चलेत्संशितव्रतः

१.६५.२१कथं त्वं तस्य दुहिता संभूता वरवर्णिनी
संशयो मे महानत्र तं मे छेत्तुमिहार्हसि

१.६५.२२शकुन्तलोवाच

१.६५.२३यथायमागमो मह्यं यथा चेदमभूत्पुरा
शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः

१.६५.२४ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत्
तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव

१.६५.२५तप्यमानः किल पुरा विश्वामित्रो महत्तपः
सुभृशं तापयामास शक्रं सुरगणेश्वरम्

१.६५.२६तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति
भीतः पुरंदरस्तस्मान्मेनकामिदमब्रवीत्

१.६५.२७गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे
श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु

१.६५.२८असावादित्यसंकाशो विश्वामित्रो महातपाः
तप्यमानस्तपो घोरं मम कम्पयते मनः

१.६५.२९मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे
संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते

१.६५.३०स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय
चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम्

१.६५.३१रूपयौवनमाधुर्यचेष्टितस्मितभाषितैः
लोभयित्वा वरारोहे तपसः संनिवर्तय

१.६५.३२मेनकोवाच

१.६५.३३महातेजाः स भगवान्सदैव च महातपाः
कोपनश्च तथा ह्येनं जानाति भगवानपि

१.६५.३४तेजसस्तपसश्चैव कोपस्य च महात्मनः
त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम्

१.६५.३५महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत्
क्षत्रे जातश्च यः पूर्वमभवद्ब्राह्मणो बलात्

१.६५.३६शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः
यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः

१.६५.३७बभार यत्रास्य पुरा काले दुर्गे महात्मनः
दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः

१.६५.३८अतीतकाले दुर्भिक्षे यत्रैत्य पुनराश्रमम्
मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः

१.६५.३९मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम्
त्वं च सोमं भयाद्यस्य गतः पातुं शुरेश्वर

१.६५.४०अति नक्षत्रवंशांश्च क्रुद्धो नक्षत्रसंपदा
प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः

१.६५.४१एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे
यथा मां न दहेत्क्रुद्धस्तथाज्ञापय मां विभो

१.६५.४२तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा
संक्षिपेच्च महामेरुं तूर्णमावर्तयेत्तथा

१.६५.४३तादृशं तपसा युक्तं प्रदीप्तमिव पावकम्
कथमस्मद्विधा बाला जितेन्द्रियमभिस्पृशेत्

१.६५.४४हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम्
कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत्

१.६५.४५यमश्च सोमश्च महर्षयश्च; साध्या विश्वे वालखिल्याश्च सर्वे
एतेऽपि यस्योद्विजन्ते प्रभावा;त्कस्मात्तस्मान्मादृशी नोद्विजेत

१.६५.४६त्वयैवमुक्ता च कथं समीप;मृषेर्न गच्छेयमहं सुरेन्द्र
रक्षां तु मे चिन्तय देवराज; यथा त्वदर्थं रक्षिताहं चरेयम्

१.६५.४७कामं तु मे मारुतस्तत्र वासः; प्रक्रीडिताया विवृणोतु देव
भवेच्च मे मन्मथस्तत्र कार्ये; सहायभूतस्तव देवप्रसादात्

१.६५.४८वनाच्च वायुः सुरभिः प्रवाये;त्तस्मिन्काले तमृषिं लोभयन्त्याः
तथेत्युक्त्वा विहिते चैव तस्मिं;स्ततो ययौ साश्रमं कौशिकस्य