१.६६.१शकुन्तलोवाच
१.६६.२एवमुक्तस्तया शक्रः संदिदेश सदागतिम्
प्रातिष्ठत तदा काले मेनका वायुना सह
१.६६.३अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम्
विश्वामित्रं तपस्यन्तं मेनका भीरुराश्रमे
१.६६.४अभिवाद्य ततः सा तं प्राक्रीडदृषिसंनिधौ
अपोवाह च वासोऽस्या मारुतः शशिसंनिभम्
१.६६.५सागच्छत्त्वरिता भूमिं वासस्तदभिलिङ्गती
उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी
१.६६.६गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः
अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा
१.६६.७तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा
चकार भावं संसर्गे तया कामवशं गतः
१.६६.८न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता
तौ तत्र सुचिरं कालं वने व्यहरतामुभौ
रममाणौ यथाकामं यथैकदिवसं तथा
१.६६.९जनयामास स मुनिर्मेनकायां शकुन्तलाम्
प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम्
१.६६.१०जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु
कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम्
१.६६.११तं वने विजने गर्भं सिंहव्याघ्रसमाकुले
दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन्
१.६६.१२नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः
पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम्
१.६६.१३उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम्
निर्जने विपिनेऽरण्ये शकुन्तैः परिवारिताम्
आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम्
१.६६.१४शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते
क्रमेण ते त्रयोऽप्युक्ताः पितरो धर्मनिश्चये
१.६६.१५निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता
शकुन्तलेति नामास्याः कृतं चापि ततो मया
१.६६.१६एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम्
शकुन्तला च पितरं मन्यते मामनिन्दिता
१.६६.१७एतदाचष्ट पृष्टः सन्मम जन्म महर्षये
सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप
१.६६.१८कण्वं हि पितरं मन्ये पितरं स्वमजानती
इति ते कथितं राजन्यथावृत्तं श्रुतं मया