१. आदिपर्व
१.६९.१शकुन्तलोवाच

१.६९.२राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि

१.६९.३मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम्
ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः

१.६९.४क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम्
आवयोरन्तरं पश्य मेरुसर्षपयोरिव

१.६९.५महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च
भवनान्यनुसंयामि प्रभावं पश्य मे नृप

१.६९.६सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ
निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि

१.६९.७विरूपो यावदादर्शे नात्मनः पश्यते मुखम्
मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम्

१.६९.८यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते
तदेतरं विजानाति आत्मानं नेतरं जनम्

१.६९.९अतीव रूपसंपन्नो न किंचिदवमन्यते
अतीव जल्पन्दुर्वाचो भवतीह विहेठकः

१.६९.१०मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः
अशुभं वाक्यमादत्ते पुरीषमिव सूकरः

१.६९.११प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः

१.६९.१२अन्यान्परिवदन्साधुर्यथा हि परितप्यते
तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः

१.६९.१३अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम्
एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः

१.६९.१४सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः
यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान्

१.६९.१५अतो हास्यतरं लोके किंचिदन्यन्न विद्यते
यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम्

१.६९.१६सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव
अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः

१.६९.१७स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते
तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते

१.६९.१८कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन्
उत्तमं सर्वधर्माणां तस्मात्पुत्रं न संत्यजेत्

१.६९.१९स्वपत्नीप्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान्
कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत्

१.६९.२०धर्मकीर्त्यावहा नॄणां मनसः प्रीतिवर्धनाः
त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन्

१.६९.२१स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि
आत्मानं सत्यधर्मौ च पालयानो महीपते
नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि

१.६९.२२वरं कूपशताद्वापी वरं वापीशतात्क्रतुः
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम्

१.६९.२३अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते

१.६९.२४सर्ववेदाधिगमनं सर्वतीर्थावगाहनम्
सत्यं च वदतो राजन्समं वा स्यान्न वा समम्

१.६९.२५नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम्
न हि तीव्रतरं किंचिदनृतादिह विद्यते

१.६९.२६राजन्सत्यं परं ब्रह्म सत्यं च समयः परः
मा त्याक्षीः समयं राजन्सत्यं संगतमस्तु ते

१.६९.२७अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम्
आत्मनो हन्त गच्छामि त्वादृशे नास्ति संगतम्

१.६९.२८ऋतेऽपि त्वयि दुःषन्त शैलराजावतंसकाम्
चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति

१.६९.२९वैशंपायन उवाच

१.६९.३०एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला
अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी
ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा

१.६९.३१भस्त्रा माता पितुः पुत्रो येन जातः स एव सः
भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम्

१.६९.३२रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला

१.६९.३३जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम्
तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप

१.६९.३४अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम्
शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव

१.६९.३५भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि
तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः

१.६९.३६तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम्
पुरोहितममात्यांश्च संप्रहृष्टोऽब्रवीदिदम्

१.६९.३७शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम्
अहमप्येवमेवैनं जानामि स्वयमात्मजम्

१.६९.३८यद्यहं वचनादेव गृह्णीयामिममात्मजम्
भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम्

१.६९.३९तं विशोध्य तदा राजा देवदूतेन भारत
हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम्

१.६९.४०मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे
सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः
स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः

१.६९.४१तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः
अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः

१.६९.४२कृतो लोकपरोक्षोऽयं संबन्धो वै त्वया सह
तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम्

१.६९.४३मन्यते चैव लोकस्ते स्त्रीभावान्मयि संगतम्
पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम्

१.६९.४४यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये
प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे

१.६९.४५तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रियाम्
वासोभिरन्नपानैश्च पूजयामास भारत

१.६९.४६दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा
भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत्

१.६९.४७तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः
भास्वरं दिव्यमजितं लोकसंनादनं महत्

१.६९.४८स विजित्य महीपालांश्चकार वशवर्तिनः
चचार च सतां धर्मं प्राप चानुत्तमं यशः

१.६९.४९स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान्
ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः

१.६९.५०याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम्
श्रीमान्गोविततं नाम वाजिमेधमवाप सः
यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ

१.६९.५१भरताद्भारती कीर्तिर्येनेदं भारतं कुलम्
अपरे ये च पूर्वे च भारता इति विश्रुताः

१.६९.५२भरतस्यान्ववाये हि देवकल्पा महौजसः
बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः

१.६९.५३येषामपरिमेयानि नामधेयानि सर्वशः
तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत
महाभागान्देवकल्पान्सत्यार्जवपरायणान्