१. आदिपर्व
१.६८.१वैशंपायन उवाच

१.६८.२प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला
गर्भं सुषाव वामोरुः कुमारममितौजसम्

१.६८.३त्रिषु वर्षेषु पूर्णेषु दिप्तानलसमद्युतिम्
रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय

१.६८.४जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः
तस्याथ कारयामास वर्धमानस्य धीमतः

१.६८.५दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा
चक्राङ्कितकरः श्रीमान्महामूर्धा महाबलः
कुमारो देवगर्भाभः स तत्राशु व्यवर्धत

१.६८.६षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति
व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा

१.६८.७बद्ध्वा वृक्षेषु बलवानाश्रमस्य समन्ततः
आरोहन्दमयंश्चैव क्रीडंश्च परिधावति

१.६८.८ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः
अस्त्वयं सर्वदमनः सर्वं हि दमयत्ययम्

१.६८.९स सर्वदमनो नाम कुमारः समपद्यत
विक्रमेणौजसा चैव बलेन च समन्वितः

१.६८.१०तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम्
समयो यौवराज्यायेत्यब्रवीच्च शकुन्तलाम्

१.६८.११तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह
शकुन्तलामिमां शीघ्रं सहपुत्रामितोऽऽश्रमात्
भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम्

१.६८.१२नारीणां चिरवासो हि बान्धवेषु न रोचते
कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम्

१.६८.१३तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः
शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम्

१.६८.१४गृहीत्वामरगर्भाभं पुत्रं कमललोचनम्
आजगाम ततः शुभ्रा दुःषन्तविदिताद्वनात्

१.६८.१५अभिसृत्य च राजानं विदिता सा प्रवेशिता
सह तेनैव पुत्रेण तरुणादित्यवर्चसा

१.६८.१६पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला
अयं पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम्

१.६८.१७त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः
यथासमयमेतस्मिन्वर्तस्व पुरुषोत्तम

१.६८.१८यथा समागमे पूर्वं कृतः स समयस्त्वया
तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति

१.६८.१९सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि
अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि

१.६८.२०धर्मकामार्थसंबन्धं न स्मरामि त्वया सह
गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु

१.६८.२१सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी
विसंज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला

१.६८.२२संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसंपुटा
कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत

१.६८.२३आकारं गूहमाना च मन्युनाभिसमीरिता
तपसा संभृतं तेजो धारयामास वै तदा

१.६८.२४सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता
भर्तारमभिसंप्रेक्ष्य क्रुद्धा वचनमब्रवीत्

१.६८.२५जानन्नपि महाराज कस्मादेवं प्रभाषसे
न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा

१.६८.२६अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च
कल्याण बत साक्षी त्वं मात्मानमवमन्यथाः

१.६८.२७योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते
किं तेन न कृतं पापं चोरेणात्मापहारिणा

१.६८.२८एकोऽहमस्मीति च मन्यसे त्वं; न हृच्छयं वेत्सि मुनिं पुराणम्
यो वेदिता कर्मणः पापकस्य; तस्यान्तिके त्वं वृजिनं करोषि

१.६८.२९मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति
विदन्ति चैनं देवाश्च स्वश्चैवान्तरपूरुषः

१.६८.३०आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो हृदयं यमश्च
अहश्च रात्रिश्च उभे च संध्ये; धर्मश्च जानाति नरस्य वृत्तम्

१.६८.३१यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम्
हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति

१.६८.३२न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः
तं यमः पापकर्माणं निर्यातयति दुष्कृतम्

१.६८.३३अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते
देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम्

१.६८.३४स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम्
अर्घ्यार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम्

१.६८.३५किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि
न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे

१.६८.३६यदि मे याचमानाया वचनं न करिष्यसि
दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति

१.६८.३७भार्यां पतिः संप्रविश्य स यस्माज्जायते पुनः
जायाया इति जायात्वं पुराणाः कवयो विदुः

१.६८.३८यदागमवतः पुंसस्तदपत्यं प्रजायते
तत्तारयति संतत्या पूर्वप्रेतान्पितामहान्

१.६८.३९पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः
तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा

१.६८.४०सा भार्या या गृहे दक्षा सा भार्या या प्रजावती
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता

१.६८.४१अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा
भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः

१.६८.४२भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः

१.६८.४३सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः
पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः

१.६८.४४कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै
यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः

१.६८.४५संसरन्तमपि प्रेतं विषमेष्वेकपातिनम्
भार्यैवान्वेति भर्तारं सततं या पतिव्रता

१.६८.४६प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते
पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति

१.६८.४७एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते
यदाप्नोति पतिर्भार्यामिह लोके परत्र च

१.६८.४८आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः
तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरम्

१.६८.४९भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम्
ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत्

१.६८.५०दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः
ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव

१.६८.५१सुसंरब्धोऽपि रामाणां न ब्रूयादप्रियं बुधः
रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च

१.६८.५२आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम्
ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः

१.६८.५३परिपत्य यदा सूनुर्धरणीरेणुगुण्ठितः
पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः

१.६८.५४स त्वं स्वयमनुप्राप्तं साभिलाषमिमं सुतम्
प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे

१.६८.५५अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः
न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम्

१.६८.५६न वाससां न रामाणां नापां स्पर्शस्तथा सुखः
शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः

१.६८.५७ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्
गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः

१.६८.५८स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः
पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते

१.६८.५९त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिंदम
इमं कुमारं राजेन्द्र तव शोकप्रणाशनम्

१.६८.६०आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव
इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा

१.६८.६१ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः
मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः

१.६८.६२वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः
जातकर्मणि पुत्राणां तवापि विदितं तथा

१.६८.६३अङ्गादङ्गात्संभवसि हृदयादभिजायसे
आत्मा वै पुत्रनामासि स जीव शरदः शतम्

१.६८.६४पोषो हि त्वदधीनो मे संतानमपि चाक्षयम्
तस्मात्त्वं जीव मे वत्स सुसुखी शरदां शतम्

१.६८.६५त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः
सरसीवामलेऽऽत्मानं द्वितीयं पश्य मे सुतम्

१.६८.६६यथा ह्याहवनीयोऽग्निर्गार्हपत्यात्प्रणीयते
तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधा कृतः

१.६८.६७मृगापकृष्टेन हि ते मृगयां परिधावता
अहमासादिता राजन्कुमारी पितुराश्रमे

१.६८.६८उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका
विश्वाची च घृताची च षडेवाप्सरसां वराः

१.६८.६९तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः
दिवः संप्राप्य जगतीं विश्वामित्रादजीजनत्

१.६८.७०सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः
अवकीर्य च मां याता परात्मजमिवासती

१.६८.७१किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि
यदहं बान्धवैस्त्यक्ता बाल्ये संप्रति च त्वया

१.६८.७२कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम्
इमं तु बालं संत्यक्तुं नार्हस्यात्मजमात्मना

१.६८.७३दुःषन्त उवाच

१.६८.७४न पुत्रमभिजानामि त्वयि जातं शकुन्तले
असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः

१.६८.७५मेनका निरनुक्रोशा बन्धकी जननी तव
यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता

१.६८.७६स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव
विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः

१.६८.७७मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता
तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि

१.६८.७८अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे
विशेषतो मत्सकाशे दुष्टतापसि गम्यताम्

१.६८.७९क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका
क्व च त्वमेवं कृपणा तापसीवेषधारिणी

१.६८.८०अतिकायश्च पुत्रस्ते बालोऽपि बलवानयम्
कथमल्पेन कालेन शालस्कन्ध इवोद्गतः

१.६८.८१सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे
यदृच्छया कामरागाज्जाता मेनकया ह्यसि

१.६८.८२सर्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि
नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया