१.७२.१वैशंपायन उवाच
१.७२.२समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा
प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम्
१.७२.३ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च
भ्राजसे विद्यया चैव तपसा च दमेन च
१.७२.४ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः
तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः
१.७२.५एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन
व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि
१.७२.६स समावृत्तविद्यो मां भक्तां भजितुमर्हसि
गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम्
१.७२.७कच उवाच
१.७२.८पूज्यो मान्यश्च भगवान्यथा तव पिता मम
तथा त्वमनवद्याङ्गि पूजनीयतरा मम
१.७२.९आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः
त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम
१.७२.१०यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव
देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि
१.७२.११देवयान्युवाच
१.७२.१२गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः
तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम
१.७२.१३असुरैर्हन्यमाने च कच त्वयि पुनः पुनः
तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे
१.७२.१४सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम्
न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम्
१.७२.१५कच उवाच
१.७२.१६अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते
प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे
१.७२.१७यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने
तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि
१.७२.१८भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने
सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम
१.७२.१९आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि
अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे
अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम
१.७२.२०देवयान्युवाच
१.७२.२१यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः
ततः कच न ते विद्या सिद्धिमेषा गमिष्यति
१.७२.२२कच उवाच
१.७२.२३गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः
गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम्
१.७२.२४आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया
शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः
१.७२.२५तस्माद्भवत्या यः कामो न तथा स भविष्यति
ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति
१.७२.२६फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा
अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति
१.७२.२७वैशंपायन उवाच
१.७२.२८एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः
१.७२.२९तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः
बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः
१.७२.३०यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम्
न ते यशः प्रणशिता भागभाङ्नो भविष्यसि