१.७३.१वैशंपायन उवाच
१.७३.२कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः
कचादधीत्य तां विद्यां कृतार्था भरतर्षभ
१.७३.३सर्व एव समागम्य शतक्रतुमथाब्रुवन्
कालस्ते विक्रमस्याद्य जहि शत्रून्पुरंदर
१.७३.४एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा
तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः
१.७३.५क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे
वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत्
१.७३.६ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा
वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः
१.७३.७तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा
व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः
१.७३.८ततस्तयोर्मिथस्तत्र विरोधः समजायत
देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते
१.७३.९देवयान्युवाच
१.७३.१०कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि
समुदाचारहीनाया न ते श्रेयो भविष्यति
१.७३.११शर्मिष्ठोवाच
१.७३.१२आसीनं च शयानं च पिता ते पितरं मम
स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत्
१.७३.१३याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः
१.७३.१४अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि
लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम्
१.७३.१५वैशंपायन उवाच
१.७३.१६समुच्छ्रयं देवयानीं गतां सक्तां च वाससि
शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत्
१.७३.१७हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया
अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा
१.७३.१८अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः
श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः
१.७३.१९स नाहुषः प्रेक्षमाण उदपानं गतोदकम्
ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव
१.७३.२०तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम्
सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना
१.७३.२१का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला
दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा
१.७३.२२कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते
दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे
१.७३.२३देवयान्युवाच
१.७३.२४योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया
तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते
१.७३.२५एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः
समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः
१.७३.२६जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम्
तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि
१.७३.२७वैशंपायन उवाच
१.७३.२८तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः
गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात्
१.७३.२९उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः
आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ
१.७३.३०देवयान्युवाच
१.७३.३१त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः
नेदानीं हि प्रवक्ष्यामि नगरं वृषपर्वणः
१.७३.३२वैशंपायन उवाच
१.७३.३३सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम्
दृष्ट्वा काव्यमुवाचेदं संभ्रमाविष्टचेतना
१.७३.३४आचक्षे ते महाप्राज्ञ देवयानी वने हता
शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः
१.७३.३५श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम्
त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने
१.७३.३६दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने
बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत्
१.७३.३७आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः
मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता
१.७३.३८देवयान्युवाच
१.७३.३९निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम
शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः
सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः
१.७३.४०एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी
वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम्
१.७३.४१स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः
१.७३.४२इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः
क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः
१.७३.४३यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः
प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया
१.७३.४४शुक्र उवाच
१.७३.४५स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः
अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि
१.७३.४६वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः
अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम