१.८५.१अष्टक उवाच
१.८५.२यदावसो नन्दने कामरूपी; संवत्सराणामयुतं शतानाम्
किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधामन्वपद्यः
१.८५.३ययातिरुवाच
१.८५.४ज्ञातिः सुहृत्स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर्हि
तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसंघाः
१.८५.५अष्टक उवाच
१.८५.६कथं तस्मिन्क्षीणपुण्या भवन्ति; संमुह्यते मेऽत्र मनोऽतिमात्रम्
किंविशिष्टाः कस्य धामोपयान्ति; तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे
१.८५.७ययातिरुवाच
१.८५.८इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे
ते कङ्कगोमायुबलाशनार्थं; क्षीणा विवृद्धिं बहुधा व्रजन्ति
१.८५.९तस्मादेतद्वर्जनीयं नरेण; दुष्टं लोके गर्हणीयं च कर्म
आख्यातं ते पार्थिव सर्वमेत;द्भूयश्चेदानीं वद किं ते वदामि
१.८५.१०अष्टक उवाच
१.८५.११यदा तु तान्वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतंगाः
कथं भवन्ति कथमाभवन्ति; न भौममन्यं नरकं शृणोमि
१.८५.१२ययातिरुवाच
१.८५.१३ऊर्ध्वं देहात्कर्मणो जृम्भमाणा;द्व्यक्तं पृथिव्यामनुसंचरन्ति
इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगाननेकान्
१.८५.१४षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि
तान्वै तुदन्ति प्रपततः प्रपातं; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः
१.८५.१५अष्टक उवाच
१.८५.१६यदेनसस्ते पततस्तुदन्ति; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः
कथं भवन्ति कथमाभवन्ति; कथंभूता गर्भभूता भवन्ति
१.८५.१७ययातिरुवाच
१.८५.१८अस्रं रेतः पुष्पफलानुपृक्त;मन्वेति तद्वै पुरुषेण सृष्टम्
स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र
१.८५.१९वनस्पतींश्चौषधीश्चाविशन्ति; अपो वायुं पृथिवीं चान्तरिक्षम्
चतुष्पदं द्विपदं चापि सर्व;मेवंभूता गर्भभूता भवन्ति
१.८५.२०अष्टक उवाच
१.८५.२१अन्यद्वपुर्विदधातीह गर्भ; उताहोस्वित्स्वेन कामेन याति
आपद्यमानो नरयोनिमेता;माचक्ष्व मे संशयात्प्रब्रवीमि
१.८५.२२शरीरदेहादिसमुच्छ्रयं च; चक्षुःश्रोत्रे लभते केन संज्ञाम्
एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे
१.८५.२३ययातिरुवाच
१.८५.२४वायुः समुत्कर्षति गर्भयोनि;मृतौ रेतः पुष्परसानुपृक्तम्
स तत्र तन्मात्रकृताधिकारः; क्रमेण संवर्धयतीह गर्भम्
१.८५.२५स जायमानो विगृहीतगात्रः; षड्ज्ञाननिष्ठायतनो मनुष्यः
स श्रोत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च
१.८५.२६घ्राणेन गन्धं जिह्वयाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम्
इत्यष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे
१.८५.२७अष्टक उवाच
१.८५.२८यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा
अभावभूतः स विनाशमेत्य; केनात्मानं चेतयते पुरस्तात्
१.८५.२९ययातिरुवाच
१.८५.३०हित्वा सोऽसून्सुप्तवन्निष्टनित्वा; पुरोधाय सुकृतं दुष्कृतं च
अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह
१.८५.३१पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति
कीटाः पतंगाश्च भवन्ति पापा; न मे विवक्षास्ति महानुभाव
१.८५.३२चतुष्पदा द्विपदाः षट्पदाश्च; तथाभूता गर्भभूता भवन्ति
आख्यातमेतन्निखिलेन सर्वं; भूयस्तु किं पृच्छसि राजसिंह
१.८५.३३अष्टक उवाच
१.८५.३४किं स्वित्कृत्वा लभते तात लोका;न्मर्त्यः श्रेष्ठांस्तपसा विद्यया वा
तन्मे पृष्टः शंस सर्वं यथाव;च्छुभाँल्लोकान्येन गच्छेत्क्रमेण
१.८५.३५ययातिरुवाच
१.८५.३६तपश्च दानं च शमो दमश्च; ह्रीरार्जवं सर्वभूतानुकम्पा
नश्यन्ति मानेन तमोऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः
१.८५.३७अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम्
तस्यान्तवन्तश्च भवन्ति लोका; न चास्य तद्ब्रह्म फलं ददाति
१.८५.३८चत्वारि कर्माण्यभयंकराणि; भयं प्रयच्छन्त्ययथाकृतानि
मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः
१.८५.३९न मान्यमानो मुदमाददीत; न संतापं प्राप्नुयाच्चावमानात्
सन्तः सतः पूजयन्तीह लोके; नासाधवः साधुबुद्धिं लभन्ते
१.८५.४०इति दद्यादिति यजेदित्यधीयीत मे व्रतम्
इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः
१.८५.४१येनाश्रयं वेदयन्ते पुराणं; मनीषिणो मानसमानभक्तम्
तन्निःश्रेयस्तैजसं रूपमेत्य; परां शान्तिं प्राप्नुयुः प्रेत्य चेह