१.८४.१ययातिरुवाच
१.८४.२अहं ययातिर्नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात्
प्रभ्रंशितः सुरसिद्धर्षिलोका;त्परिच्युतः प्रपताम्यल्पपुण्यः
१.८४.३अहं हि पूर्वो वयसा भवद्भ्य;स्तेनाभिवादं भवतां न प्रयुञ्जे
यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम्
१.८४.४अष्टक उवाच
१.८४.५अवादीश्चेद्वयसा यः स वृद्ध; इति राजन्नाभ्यवदः कथंचित्
यो वै विद्वान्वयसा सन्स्म वृद्धः; स एव पूज्यो भवति द्विजानाम्
१.८४.६ययातिरुवाच
१.८४.७प्रतिकूलं कर्मणां पापमाहु;स्तद्वर्ततेऽप्रवणे पापलोक्यम्
सन्तोऽसतां नानुवर्तन्ति चैत;द्यथा आत्मैषामनुकूलवादी
१.८४.८अभूद्धनं मे विपुलं महद्वै; विचेष्टमानो नाधिगन्ता तदस्मि
एवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन्
१.८४.९नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः
तत्तत्प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्मबुद्ध्या
१.८४.१०सुखं हि जन्तुर्यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या
तस्माद्दिष्टं बलवन्मन्यमानो; न संज्वरेन्नापि हृष्येत्कदाचित्
१.८४.११दुःखे न तप्येन्न सुखेन हृष्ये;त्समेन वर्तेत सदैव धीरः
दिष्टं बलीय इति मन्यमानो; न संज्वरेन्नापि हृष्येत्कदाचित्
१.८४.१२भये न मुह्याम्यष्टकाहं कदाचि;त्संतापो मे मानसो नास्ति कश्चित्
धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा
१.८४.१३संस्वेदजा अण्डजा उद्भिदाश्च; सरीसृपाः कृमयोऽथाप्सु मत्स्याः
तथाश्मानस्तृणकाष्ठं च सर्वं; दिष्टक्षये स्वां प्रकृतिं भजन्ते
१.८४.१४अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात्संतापमष्टकाहं भजेयम्
किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात्संतापं वर्जयाम्यप्रमत्तः
१.८४.१५अष्टक उवाच
१.८४.१६ये ये लोकाः पार्थिवेन्द्र प्रधाना;स्त्वया भुक्ता यं च कालं यथा च
तन्मे राजन्ब्रूहि सर्वं यथाव;त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान्
१.८४.१७ययातिरुवाच
१.८४.१८राजाहमासमिह सार्वभौम;स्ततो लोकान्महतो अजयं वै
तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः
१.८४.१९ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम्
अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः
१.८४.२०ततो दिव्यमजरं प्राप्य लोकं; प्रजापतेर्लोकपतेर्दुरापम्
तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः
१.८४.२१देवस्य देवस्य निवेशने च; विजित्य लोकानवसं यथेष्टम्
संपूज्यमानस्त्रिदशैः समस्तै;स्तुल्यप्रभावद्युतिरीश्वराणाम्
१.८४.२२तथावसं नन्दने कामरूपी; संवत्सराणामयुतं शतानाम्
सहाप्सरोभिर्विहरन्पुण्यगन्धा;न्पश्यन्नगान्पुष्पितांश्चारुरूपान्
१.८४.२३तत्रस्थं मां देवसुखेषु सक्तं; कालेऽतीते महति ततोऽतिमात्रम्
दूतो देवानामब्रवीदुग्ररूपो; ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण
१.८४.२४एतावन्मे विदितं राजसिंह; ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः
वाचोऽश्रौषं चान्तरिक्षे सुराणा;मनुक्रोशाच्छोचतां मानवेन्द्र
१.८४.२५अहो कष्टं क्षीणपुण्यो ययातिः; पतत्यसौ पुण्यकृत्पुण्यकीर्तिः
तानब्रुवं पतमानस्ततोऽहं; सतां मध्ये निपतेयं कथं नु
१.८४.२६तैराख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितमुपागतोऽस्मि
हविर्गन्धं देशिकं यज्ञभूमे;र्धूमापाङ्गं प्रतिगृह्य प्रतीतः