१.८७.१अष्टक उवाच
१.८७.२कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम्
उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव
१.८७.३ययातिरुवाच
१.८७.४अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः
ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः
१.८७.५अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत्
तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः
१.८७.६यद्वै नृशंसं तदपथ्यमाहु;र्यः सेवते धर्ममनर्थबुद्धिः
अस्वोऽप्यनीशश्च तथैव राजं;स्तदार्जवं स समाधिस्तदार्यम्
१.८७.७अष्टक उवाच
१.८७.८केनासि दूतः प्रहितोऽद्य राज;न्युवा स्रग्वी दर्शनीयः सुवर्चाः
कुत आगतः कतरस्यां दिशि त्व;मुताहोस्वित्पार्थिवं स्थानमस्ति
१.८७.९ययातिरुवाच
१.८७.१०इमं भौमं नरकं क्षीणपुण्यः; प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः
उक्त्वाहं वः प्रपतिष्याम्यनन्तरं; त्वरन्ति मां ब्राह्मणा लोकपालाः
१.८७.११सतां सकाशे तु वृतः प्रपात;स्ते संगता गुणवन्तश्च सर्वे
शक्राच्च लब्धो हि वरो मयैष; पतिष्यता भूमितले नरेन्द्र
१.८७.१२अष्टक उवाच
१.८७.१३पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मेऽत्र
यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये
१.८७.१४ययातिरुवाच
१.८७.१५यावत्पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश्च
तावल्लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्रसिंह
१.८७.१६अष्टक उवाच
१.८७.१७तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति
यद्यन्तरिक्षे यदि वा दिवि श्रिता;स्तानाक्रम क्षिप्रममित्रसाह
१.८७.१८ययातिरुवाच
१.८७.१९नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च; प्रतिग्रहे वर्तते राजमुख्य
यथा प्रदेयं सततं द्विजेभ्य;स्तथाददं पूर्वमहं नरेन्द्र
१.८७.२०नाब्राह्मणः कृपणो जातु जीवे;द्या चापि स्याद्ब्राह्मणी वीरपत्नी
सोऽहं यदैवाकृतपूर्वं चरेयं; विवित्समानः किमु तत्र साधु
१.८७.२१प्रतर्दन उवाच
१.८७.२२पृच्छामि त्वां स्पृहणीयरूप; प्रतर्दनोऽहं यदि मे सन्ति लोकाः
यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये
१.८७.२३ययातिरुवाच
१.८७.२४सन्ति लोका बहवस्ते नरेन्द्र; अप्येकैकः सप्त सप्ताप्यहानि
मधुच्युतो घृतपृक्ता विशोका;स्ते नान्तवन्तः प्रतिपालयन्ति
१.८७.२५प्रतर्दन उवाच
१.८७.२६तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोकास्तव ते वै भवन्तु
यद्यन्तरिक्षे यदि वा दिवि श्रिता;स्तानाक्रम क्षिप्रमपेतमोहः
१.८७.२७ययातिरुवाच
१.८७.२८न तुल्यतेजाः सुकृतं कामयेत; योगक्षेमं पार्थिव पार्थिवः सन्
दैवादेशादापदं प्राप्य विद्वां;श्चरेन्नृशंसं न हि जातु राजा
१.८७.२९धर्म्यं मार्गं चेतयानो यशस्यं; कुर्यान्नृपो धर्ममवेक्षमाणः
न मद्विधो धर्मबुद्धिः प्रजान;न्कुर्यादेवं कृपणं मां यथात्थ
१.८७.३०कुर्यामपूर्वं न कृतं यदन्यै;र्विवित्समानः किमु तत्र साधु
ब्रुवाणमेवं नृपतिं ययातिं; नृपोत्तमो वसुमनाब्रवीत्तम्