१.८८.१वसुमना उवाच
१.८८.२पृच्छामि त्वां वसुमना रौशदश्वि;र्यद्यस्ति लोको दिवि मह्यं नरेन्द्र
यद्यन्तरिक्षे प्रथितो महात्म;न्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये
१.८८.३ययातिरुवाच
१.८८.४यदन्तरिक्षं पृथिवी दिशश्च; यत्तेजसा तपते भानुमांश्च
लोकास्तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालयन्ति
१.८८.५वसुमना उवाच
१.८८.६तांस्ते ददामि पत मा प्रपातं; ये मे लोकास्तव ते वै भवन्तु
क्रीणीष्वैनांस्तृणकेनापि राज;न्प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः
१.८८.७ययातिरुवाच
१.८८.८न मिथ्याहं विक्रयं वै स्मरामि; वृथा गृहीतं शिशुकाच्छङ्कमानः
कुर्यां न चैवाकृतपूर्वमन्यै;र्विवित्समानः किमु तत्र साधु
१.८८.९वसुमना उवाच
१.८८.१०तांस्त्वं लोकान्प्रतिपद्यस्व राज;न्मया दत्तान्यदि नेष्टः क्रयस्ते
अहं न तान्वै प्रतिगन्ता नरेन्द्र; सर्वे लोकास्तव ते वै भवन्तु
१.८८.११शिबिरुवाच
१.८८.१२पृच्छामि त्वां शिबिरौशीनरोऽहं; ममापि लोका यदि सन्तीह तात
यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये
१.८८.१३ययातिरुवाच
१.८८.१४न त्वं वाचा हृदयेनापि विद्व;न्परीप्समानान्नावमंस्था नरेन्द्र
तेनानन्ता दिवि लोकाः श्रितास्ते; विद्युद्रूपाः स्वनवन्तो महान्तः
१.८८.१५शिबिरुवाच
१.८८.१६तांस्त्वं लोकान्प्रतिपद्यस्व राज;न्मया दत्तान्यदि नेष्टः क्रयस्ते
न चाहं तान्प्रतिपत्स्येह दत्त्वा; यत्र गत्वा त्वमुपास्से ह लोकान्
१.८८.१७ययातिरुवाच
१.८८.१८यथा त्वमिन्द्रप्रतिमप्रभाव;स्ते चाप्यनन्ता नरदेव लोकाः
तथाद्य लोके न रमेऽन्यदत्ते; तस्माच्छिबे नाभिनन्दामि दायम्
१.८८.१९अष्टक उवाच
१.८८.२०न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि
सर्वे प्रदाय भवते गन्तारो नरकं वयम्
१.८८.२१ययातिरुवाच
१.८८.२२यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः
अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा
१.८८.२३अष्टक उवाच
१.८८.२४कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव
१.८८.२५ययातिरुवाच
१.८८.२६युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव
१.८८.२७अष्टक उवाच
१.८८.२८आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा
वयमप्यनुयास्यामो यदा कालो भविष्यति
१.८८.२९ययातिरुवाच
१.८८.३०सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम्
एष नो विरजाः पन्था दृश्यते देवसद्मनः
१.८८.३१वैशंपायन उवाच
१.८८.३२तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः
आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी
१.८८.३३अष्टक उवाच
१.८८.३४अहं मन्ये पूर्वमेकोऽस्मि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा
कस्मादेवं शिबिरौशीनरोऽय;मेकोऽत्यगात्सर्ववेगेन वाहान्
१.८८.३५ययातिरुवाच
१.८८.३६अददाद्देवयानाय यावद्वित्तमविन्दत
उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः
१.८८.३७दानं तपः सत्यमथापि धर्मो; ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा
राजन्नेतान्यप्रतिमस्य राज्ञः; शिबेः स्थितान्यनृशंसस्य बुद्ध्या
एवंवृत्तो ह्रीनिषेधश्च यस्मा;त्तस्माच्छिबिरत्यगाद्वै रथेन
१.८८.३८वैशंपायन उवाच
१.८८.३९अथाष्टकः पुनरेवान्वपृच्छ;न्मातामहं कौतुकादिन्द्रकल्पम्
पृच्छामि त्वां नृपते ब्रूहि सत्यं; कुतश्च कस्यासि सुतश्च कस्य
कृतं त्वया यद्धि न तस्य कर्ता; लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा
१.८८.४०ययातिरुवाच
१.८८.४१ययातिरस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभौमस्त्विहासम्
गुह्यमर्थं मामकेभ्यो ब्रवीमि; मातामहोऽहं भवतां प्रकाशः
१.८८.४२सर्वामिमां पृथिवीं निर्जिगाय; प्रस्थे बद्ध्वा ह्यददं ब्राह्मणेभ्यः
मेध्यानश्वानेकशफान्सुरूपां;स्तदा देवाः पुण्यभाजो भवन्ति
१.८८.४३अदामहं पृथिवीं ब्राह्मणेभ्यः; पूर्णामिमामखिलां वाहनस्य
गोभिः सुवर्णेन धनैश्च मुख्यै;स्तत्रासन्गाः शतमर्बुदानि
१.८८.४४सत्येन मे द्यौश्च वसुंधरा च; तथैवाग्निर्ज्वलते मानुषेषु
न मे वृथा व्याहृतमेव वाक्यं; सत्यं हि सन्तः प्रतिपूजयन्ति
सर्वे च देवा मुनयश्च लोकाः; सत्येन पूज्या इति मे मनोगतम्
१.८८.४५यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत्
अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम्
१.८८.४६वैशंपायन उवाच
१.८८.४७एवं राजा स महात्मा ह्यतीव; स्वैर्दौहित्रैस्तारितोऽमित्रसाहः
त्यक्त्वा महीं परमोदारकर्मा; स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम्