१.९७.१वैशंपायन उवाच
१.९७.२ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी
पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत
१.९७.३धर्मं च पितृवंशं च मातृवंशं च मानिनी
प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत्
१.९७.४शंतनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः
त्वयि पिण्डश्च कीर्तिश्च संतानं च प्रतिष्ठितम्
१.९७.५यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम्
यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः
१.९७.६वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च
विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः
१.९७.७व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये
प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव
१.९७.८तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर
कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि
१.९७.९मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते
बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ
१.९७.१०इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे
रूपयौवनसंपन्ने पुत्रकामे च भारत
१.९७.११तयोरुत्पादयापत्यं संतानाय कुलस्य नः
मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि
१.९७.१२राज्ये चैवाभिषिच्यस्व भारताननुशाधि च
दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान्
१.९७.१३तथोच्यमानो मात्रा च सुहृद्भिश्च परंतपः
प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः
१.९७.१४असंशयं परो धर्मस्त्वया मातरुदाहृतः
त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम्
१.९७.१५जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे
स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः
१.९७.१६परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः
यद्वाप्यधिकमेताभ्यां न तु सत्यं कथंचन
१.९७.१७त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः
ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत्
१.९७.१८प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम्
त्यजेच्छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत्
१.९७.१९विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट्
न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन
१.९७.२०एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा
माता सत्यवती भीष्ममुवाच तदनन्तरम्
१.९७.२१जानामि ते स्थितिं सत्ये परां सत्यपराक्रम
इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा
१.९७.२२जानामि चैव सत्यं तन्मदर्थं यदभाषथाः
आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम्
१.९७.२३यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत्
सुहृदश्च प्रहृष्येरंस्तथा कुरु परंतप
१.९७.२४लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम्
धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम्
१.९७.२५राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः
सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते
१.९७.२६शंतनोरपि संतानं यथा स्यादक्षयं भुवि
तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम्
१.९७.२७श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः
आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च