१. आदिपर्व
१.९६.१वैशंपायन उवाच

१.९६.२हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ
पालयामास तद्राज्यं सत्यवत्या मते स्थितः

१.९६.३संप्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम्
भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम्

१.९६.४अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः
शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम्

१.९६.५ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत्
जगामानुमते मातुः पुरीं वाराणसीं प्रति

१.९६.६तत्र राज्ञः समुदितान्सर्वतः समुपागतान्
ददर्श कन्यास्ताश्चैव भीष्मः शंतनुनन्दनः

१.९६.७कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः
भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः

१.९६.८उवाच च महीपालान्राजञ्जलदनिःस्वनः
रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः

१.९६.९आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः
अलंकृत्य यथाशक्ति प्रदाय च धनान्यपि

१.९६.१०प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि
वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च

१.९६.११प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते
अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम्

१.९६.१२स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च
प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः

१.९६.१३ता इमाः पृथिवीपाला जिहीर्षामि बलादितः
ते यतध्वं परं शक्त्या विजयायेतराय वा
स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः

१.९६.१४एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान्
सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम्
आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः

१.९६.१५ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः
संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान्

१.९६.१६तेषामाभरणान्याशु त्वरितानां विमुञ्चताम्
आमुञ्चतां च वर्माणि संभ्रमः सुमहानभूत्

१.९६.१७ताराणामिव संपातो बभूव जनमेजय
भूषणानां च शुभ्राणां कवचानां च सर्वशः

१.९६.१८सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः
सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा

१.९६.१९सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान्
रथानास्थाय ते वीराः सर्वप्रहरणान्विताः
प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः

१.९६.२०ततः समभवद्युद्धं तेषां तस्य च भारत
एकस्य च बहूनां च तुमुलं लोमहर्षणम्

१.९६.२१ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन्
अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत्

१.९६.२२ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन्
ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः

१.९६.२३स तद्बाणमयं वर्षं शरैरावार्य सर्वतः
ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः

१.९६.२४तस्याति पुरुषानन्याँल्लाघवं रथचारिणः
रक्षणं चात्मनः संख्ये शत्रवोऽप्यभ्यपूजयन्

१.९६.२५तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः
कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति

१.९६.२६ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः
अभ्याहनदमेयात्मा भीष्मं शांतनवं रणे

१.९६.२७वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा
वाशितामनुसंप्राप्तो यूथपो बलिनां वरः

१.९६.२८स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः
शाल्वराजो महाबाहुरमर्षेणाभिचोदितः

१.९६.२९ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः
तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन्

१.९६.३०क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमः
निवर्तयामास रथं शाल्वं प्रति महारथः

१.९६.३१निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते
प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे

१.९६.३२तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे
अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ

१.९६.३३ततो भीष्मं शांतनवं शरैः शतसहस्रशः
शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः

१.९६.३४पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः
विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन्

१.९६.३५लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः
अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः

१.९६.३६क्षत्रियाणां तदा वाचः श्रुत्वा परपुरंजयः
क्रुद्धः शांतनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत

१.९६.३७सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः
यावदेनं निहन्म्यद्य भुजंगमिव पक्षिराट्

१.९६.३८ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः
तेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप

१.९६.३९अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः
भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम्
अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान्

१.९६.४०कन्याहेतोर्नरश्रेष्ठ भीष्मः शांतनवस्तदा
जित्वा विसर्जयामास जीवन्तं नृपसत्तमम्
ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ

१.९६.४१राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः
स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरंजय

१.९६.४२एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः
प्रययौ हास्तिनपुरं यत्र राजा स कौरवः

१.९६.४३सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप
वनानि सरितश्चैव शैलांश्च विविधद्रुमान्

१.९६.४४अक्षतः क्षपयित्वारीन्संख्येऽसंख्येयविक्रमः
आनयामास काश्यस्य सुताः सागरगासुतः

१.९६.४५स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः
यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून्

१.९६.४६ताः सर्वा गुणसंपन्ना भ्राता भ्रात्रे यवीयसे
भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः

१.९६.४७सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम्
भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे
सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान्

१.९६.४८विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता
ज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा

१.९६.४९मया सौभपतिः पूर्वं मनसाभिवृतः पतिः
तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः

१.९६.५०मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे
एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर

१.९६.५१एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि
चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः

१.९६.५२स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः
अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम्

१.९६.५३अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे
भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा

१.९६.५४तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः
विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत

१.९६.५५ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे
रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे

१.९६.५६आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते
विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते

१.९६.५७स चाश्विरूपसदृशो देवसत्त्वपराक्रमः
सर्वासामेव नारीणां चित्तप्रमथनोऽभवत्

१.९६.५८ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः
विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत

१.९६.५९सुहृदां यतमानानामाप्तैः सह चिकित्सकैः
जगामास्तमिवादित्यः कौरव्यो यमसादनम्

१.९६.६०प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत्
राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः
ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुंगवैः