१०. सौप्तिकपर्व
१०.११.१वैशंपायन उवाच

१०.११.२स दृष्ट्वा निहतान्संख्ये पुत्रान्भ्रातॄन्सखींस्तथा
महादुःखपरीतात्मा बभूव जनमेजय

१०.११.३ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः
स्मरतः पुत्रपौत्राणां भ्रातॄणां स्वजनस्य ह

१०.११.४तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम्
सुहृदो भृशसंविग्नाः सान्त्वयां चक्रिरे तदा

१०.११.५ततस्तस्मिन्क्षणे काल्ये रथेनादित्यवर्चसा
नकुलः कृष्णया सार्धमुपायात्परमार्तया

१०.११.६उपप्लव्यगता सा तु श्रुत्वा सुमहदप्रियम्
तदा विनाशं पुत्राणां सर्वेषां व्यथिताभवत्

१०.११.७कम्पमानेव कदली वातेनाभिसमीरिता
कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि

१०.११.८बभूव वदनं तस्याः सहसा शोककर्शितम्
फुल्लपद्मपलाशाक्ष्यास्तमोध्वस्त इवांशुमान्

१०.११.९ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः
बाहुभ्यां परिजग्राह समुपेत्य वृकोदरः

१०.११.१०सा समाश्वासिता तेन भीमसेनेन भामिनी
रुदती पाण्डवं कृष्णा सहभ्रातरमब्रवीत्

१०.११.११दिष्ट्या राजंस्त्वमद्येमामखिलां भोक्ष्यसे महीम्
आत्मजान्क्षत्रधर्मेण संप्रदाय यमाय वै

१०.११.१२दिष्ट्या त्वं पार्थ कुशली मत्तमातङ्गगामिनम्
अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि

१०.११.१३आत्मजांस्तेन धर्मेण श्रुत्वा शूरान्निपातितान्
उपप्लव्ये मया सार्धं दिष्ट्या त्वं न स्मरिष्यसि

१०.११.१४प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा
शोकस्तपति मां पार्थ हुताशन इवाशयम्

१०.११.१५तस्य पापकृतो द्रौणेर्न चेदद्य त्वया मृधे
ह्रियते सानुबन्धस्य युधि विक्रम्य जीवितम्

१०.११.१६इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः
न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः

१०.११.१७एवमुक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत्
युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी

१०.११.१८दृष्ट्वोपविष्टां राजर्षिः पाण्डवो महिषीं प्रियाम्
प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम्

१०.११.१९धर्म्यं धर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे
पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि

१०.११.२०द्रोणपुत्रः स कल्याणि वनं दूरमितो गतः
तस्य त्वं पातनं संख्ये कथं ज्ञास्यसि शोभने

१०.११.२१द्रौपद्युवाच

१०.११.२२द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः
निहत्य संख्ये तं पापं पश्येयं मणिमाहृतम्
राजञ्शिरसि तं कृत्वा जीवेयमिति मे मतिः

१०.११.२३वैशंपायन उवाच

१०.११.२४इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना
भीमसेनमथाभ्येत्य कुपिता वाक्यमब्रवीत्

१०.११.२५त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन्
जहि तं पापकर्माणं शम्बरं मघवानिव
न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन

१०.११.२६श्रुतं तत्सर्वलोकेषु परमव्यसने यथा
द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते
हिडिम्बदर्शने चैव तथा त्वमभवो गतिः

१०.११.२७तथा विराटनगरे कीचकेन भृशार्दिताम्
मामप्युद्धृतवान्कृच्छ्रात्पौलोमीं मघवानिव

१०.११.२८यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा
तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव

१०.११.२९तस्या बहुविधं दुःखान्निशम्य परिदेवितम्
नामर्षयत कौन्तेयो भीमसेनो महाबलः

१०.११.३०स काञ्चनविचित्राङ्गमारुरोह महारथम्
आदाय रुचिरं चित्रं समार्गणगुणं धनुः

१०.११.३१नकुलं सारथिं कृत्वा द्रोणपुत्रवधे वृतः
विस्फार्य सशरं चापं तूर्णमश्वानचोदयत्

१०.११.३२ते हयाः पुरुषव्याघ्र चोदिता वातरंहसः
वेगेन त्वरिता जग्मुर्हरयः शीघ्रगामिनः

१०.११.३३शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः
द्रोणपुत्ररथस्याशु ययौ मार्गेण वीर्यवान्