१०.१८.१वासुदेव उवाच
१०.१८.२ततो देवयुगेऽतीते देवा वै समकल्पयन्
यज्ञं वेदप्रमाणेन विधिवद्यष्टुमीप्सवः
१०.१८.३कल्पयामासुरव्यग्रा देशान्यज्ञोचितांस्ततः
भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च
१०.१८.४ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः
नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप
१०.१८.५सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः
तरसा भागमन्विच्छन्धनुरादौ ससर्ज ह
१०.१८.६लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः
पञ्चभूतमयो यज्ञो नृयज्ञश्चैव पञ्चमः
१०.१८.७लोकयज्ञेन यज्ञैषी कपर्दी विदधे धनुः
धनुः सृष्टमभूत्तस्य पञ्चकिष्कुप्रमाणतः
१०.१८.८वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत
यज्ञाङ्गानि च चत्वारि तस्य संहननेऽभवन्
१०.१८.९ततः क्रुद्धो महादेवस्तदुपादाय कार्मुकम्
आजगामाथ तत्रैव यत्र देवाः समीजिरे
१०.१८.१०तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम्
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे
१०.१८.११न ववौ पवनश्चैव नाग्निर्जज्वाल चैधितः
व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम्
१०.१८.१२न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः
तिमिरेणाकुलं सर्वमाकाशं चाभवद्वृतम्
१०.१८.१३अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे
न प्रत्यभाच्च यज्ञस्तान्वेदा बभ्रंशिरे तदा
१०.१८.१४ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा
अपक्रान्तस्ततो यज्ञो मृगो भूत्वा सपावकः
१०.१८.१५स तु तेनैव रूपेण दिवं प्राप्य व्यरोचत
अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले
१०.१८.१६अपक्रान्ते ततो यज्ञे संज्ञा न प्रत्यभात्सुरान्
नष्टसंज्ञेषु देवेषु न प्रज्ञायत किंचन
१०.१८.१७त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा
पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत्
१०.१८.१८प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः
केचित्तत्रैव घूर्णन्तो गतासव इवाभवन्
१०.१८.१९स तु विद्राव्य तत्सर्वं शितिकण्ठोऽवहस्य च
अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः
१०.१८.२०ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत्
अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः
१०.१८.२१ततो विधनुषं देवा देवश्रेष्ठमुपागमन्
शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः
१०.१८.२२ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये
स जलं पावको भूत्वा शोषयत्यनिशं प्रभो
१०.१८.२३भगस्य नयने चैव बाहू च सवितुस्तथा
प्रादात्पूष्णश्च दशनान्पुनर्यज्ञं च पाण्डव
१०.१८.२४ततः सर्वमिदं स्वस्थं बभूव पुनरेव ह
सर्वाणि च हवींष्यस्य देवा भागमकल्पयन्
१०.१८.२५तस्मिन्क्रुद्धेऽभवत्सर्वमस्वस्थं भुवनं विभो
प्रसन्ने च पुनः स्वस्थं स प्रसन्नोऽस्य वीर्यवान्
१०.१८.२६ततस्ते निहताः सर्वे तव पुत्रा महारथाः
अन्ये च बहवः शूराः पाञ्चालाश्च सहानुगाः
१०.१८.२७न तन्मनसि कर्तव्यं न हि तद्द्रौणिना कृतम्
महादेवप्रसादः स कुरु कार्यमनन्तरम्