११.१.१जनमेजय उवाच
हते दुर्योधने चैव हते सैन्ये च सर्वशः
धृतराष्ट्रो महाराजः श्रुत्वा किमकरोन्मुने
११.१.२तथैव कौरवो राजा धर्मपुत्रो महामनाः
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः
११.१.३अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः
वृत्तान्तमुत्तरं ब्रूहि यदभाषत संजयः
११.१.४वैशंपायन उवाच
११.१.५हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम्
पुत्रशोकाभिसंतप्तं धृतराष्ट्रं महीपतिम्
११.१.६ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम्
अभिगम्य महाप्राज्ञः संजयो वाक्यमब्रवीत्
११.१.७किं शोचसि महाराज नास्ति शोके सहायता
अक्षौहिण्यो हताश्चाष्टौ दश चैव विशां पते
निर्जनेयं वसुमती शून्या संप्रति केवला
११.१.८नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः
सहितास्तव पुत्रेण सर्वे वै निधनं गताः
११.१.९पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा
गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारय
११.१.१०वैशंपायन उवाच
११.१.११तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः
पपात भुवि दुर्धर्षो वाताहत इव द्रुमः
११.१.१२धृतराष्ट्र उवाच
११.१.१३हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः
दुःखं नूनं भविष्यामि विचरन्पृथिवीमिमाम्
११.१.१४किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै
लूनपक्षस्य इव मे जराजीर्णस्य पक्षिणः
११.१.१५हृतराज्यो हतसुहृद्धतचक्षुश्च वै तथा
न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान्
११.१.१६न कृतं सुहृदां वाक्यं जामदग्न्यस्य जल्पतः
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च
११.१.१७सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम
अलं वैरेण ते राजन्पुत्रः संगृह्यतामिति
११.१.१८तच्च वाक्यमकृत्वाहं भृशं तप्यामि दुर्मतिः
न हि श्रोतास्मि भीष्मस्य धर्मयुक्तं प्रभाषितम्
११.१.१९दुर्योधनस्य च तथा वृषभस्येव नर्दतः
दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम्
द्रोणसूर्योपरागं च हृदयं मे विदीर्यते
११.१.२०न स्मराम्यात्मनः किंचित्पुरा संजय दुष्कृतम्
यस्येदं फलमद्येह मया मूढेन भुज्यते
११.१.२१नूनं ह्यपकृतं किंचिन्मया पूर्वेषु जन्मसु
येन मां दुःखभागेषु धाता कर्मसु युक्तवान्
११.१.२२परिणामश्च वयसः सर्वबन्धुक्षयश्च मे
सुहृन्मित्रविनाशश्च दैवयोगादुपागतः
कोऽन्योऽस्ति दुःखिततरो मया लोके पुमानिह
११.१.२३तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रतम्
विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम्
११.१.२४वैशंपायन उवाच
११.१.२५तस्य लालप्यमानस्य बहुशोकं विचिन्वतः
शोकापहं नरेन्द्रस्य संजयो वाक्यमब्रवीत्
११.१.२६शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः
शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम
सृञ्जये पुत्रशोकार्ते यदूचुर्मुनयः पुरा
११.१.२७तथा यौवनजं दर्पमास्थिते ते सुते नृप
न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम्
स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना
११.१.२८तव दुःशासनो मन्त्री राधेयश्च दुरात्मवान्
शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः
शल्यश्च येन वै सर्वं शल्यभूतं कृतं जगत्
११.१.२९कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च
न कृतं वचनं तेन तव पुत्रेण भारत
११.१.३०न धर्मः सत्कृतः कश्चिन्नित्यं युद्धमिति ब्रुवन्
क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः
११.१.३१मध्यस्थो हि त्वमप्यासीर्न क्षमं किंचिदुक्तवान्
धूर्धरेण त्वया भारस्तुलया न समं धृतः
११.१.३२आदावेव मनुष्येण वर्तितव्यं यथा क्षमम्
यथा नातीतमर्थं वै पश्चात्तापेन युज्यते
११.१.३३पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षता
पश्चात्तापमिदं प्राप्तं न त्वं शोचितुमर्हसि
११.१.३४मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति
स भ्रष्टो मधुलोभेन शोचत्येव यथा भवान्
११.१.३५अर्थान्न शोचन्प्राप्नोति न शोचन्विन्दते सुखम्
न शोचञ्श्रियमाप्नोति न शोचन्विन्दते परम्
११.१.३६स्वयमुत्पादयित्वाग्निं वस्त्रेण परिवेष्टयेत्
दह्यमानो मनस्तापं भजते न स पण्डितः
११.१.३७त्वयैव ससुतेनायं वाक्यवायुसमीरितः
लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः
११.१.३८तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः
तान्केशवार्चिर्निर्दग्धान्न त्वं शोचितुमर्हसि
११.१.३९यच्चाश्रुपातकलिलं वदनं वहसे नृप
अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः
११.१.४०विस्फुलिङ्गा इव ह्येतान्दहन्ति किल मानवान्
जहीहि मन्युं बुद्ध्या वै धारयात्मानमात्मना
११.१.४१एवमाश्वासितस्तेन संजयेन महात्मना
विदुरो भूय एवाह बुद्धिपूर्वं परंतप