१०. सौप्तिकपर्व
१०.४.१कृप उवाच

१०.४.२दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत
न त्वा वारयितुं शक्तो वज्रपाणिरपि स्वयम्

१०.४.३अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ
अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः

१०.४.४अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः
परानभिमुखं यान्तं रथावास्थाय दंशितौ

१०.४.५आवाभ्यां सहितः शत्रूञ्श्वोऽसि हन्ता समागमे
विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान्

१०.४.६शक्तस्त्वमसि विक्रान्तुं विश्रमस्व निशामिमाम्
चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम्

१०.४.७विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद
समेत्य समरे शत्रून्वधिष्यसि न संशयः

१०.४.८न हि त्वा रथिनां श्रेष्ठ प्रगृहीतवरायुधम्
जेतुमुत्सहते कश्चिदपि देवेषु पावकिः

१०.४.९कृपेण सहितं यान्तं युक्तं च कृतवर्मणा
को द्रौणिं युधि संरब्धं योधयेदपि देवराट्

१०.४.१०ते वयं परिविश्रान्ता विनिद्रा विगतज्वराः
प्रभातायां रजन्यां वै निहनिष्याम शात्रवान्

१०.४.११तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः
सात्वतोऽपि महेष्वासो नित्यं युद्धेषु कोविदः

१०.४.१२ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान्
प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम्
विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम्

१०.४.१३अहं च कृतवर्मा च प्रयान्तं त्वां नरोत्तम
अनुयास्याव सहितौ धन्विनौ परतापिनौ
रथिनं त्वरया यान्तं रथावास्थाय दंशितौ

१०.४.१४स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे
ततः कर्तासि शत्रूणां युध्यतां कदनं महत्

१०.४.१५कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि
विहरस्व यथा शक्रः सूदयित्वा महासुरान्

१०.४.१६त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम्
दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः

१०.४.१७मया त्वां सहितं संख्ये गुप्तं च कृतवर्मणा
न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम्

१०.४.१८न चाहं समरे तात कृतवर्मा तथैव च
अनिर्जित्य रणे पाण्डून्व्यपयास्याव कर्हिचित्

१०.४.१९हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह
निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम्

१०.४.२०सर्वोपायैः सहायास्ते प्रभाते वयमेव हि
सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ

१०.४.२१एवमुक्तस्ततो द्रौणिर्मातुलेन हितं वचः
अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने

१०.४.२२आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च
अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः

१०.४.२३तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम्
यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत्

१०.४.२४किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन्
हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति

१०.४.२५यथा च निहतः पापैः पिता मम विशेषतः
प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति

१०.४.२६कथं हि मादृशो लोके मुहूर्तमपि जीवति
द्रोणो हतेति यद्वाचः पाञ्चालानां शृणोम्यहम्

१०.४.२७दृष्टद्युम्नमहत्वाजौ नाहं जीवितुमुत्सहे
स मे पितृवधाद्वध्यः पाञ्चाला ये च संगताः

१०.४.२८विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः
स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत्

१०.४.२९कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत्
नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः

१०.४.३०यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः
शोकं मे वर्धयत्येष वारिवेग इवार्णवम्
एकाग्रमनसो मेऽद्य कुतो निद्रा कुतः सुखम्

१०.४.३१वासुदेवार्जुनाभ्यां हि तानहं परिरक्षितान्
अविषह्यतमान्मन्ये महेन्द्रेणापि मातुल

१०.४.३२न चास्मि शक्यः संयन्तुमस्मात्कार्यात्कथंचन
न तं पश्यामि लोकेऽस्मिन्यो मां कार्यान्निवर्तयेत्
इति मे निश्चिता बुद्धिरेषा साधुमता च मे

१०.४.३३वार्त्तिकैः कथ्यमानस्तु मित्राणां मे पराभवः
पाण्डवानां च विजयो हृदयं दहतीव मे

१०.४.३४अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके
ततो विश्रमिता चैव स्वप्ता च विगतज्वरः