१०. सौप्तिकपर्व
१०.६.१धृतराष्ट्र उवाच

१०.६.२द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ
अकुर्वतां भोजकृपौ किं संजय वदस्व मे

१०.६.३संजय उवाच

१०.६.४कृतवर्माणमामन्त्र्य कृपं च स महारथम्
द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत्

१०.६.५तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम्
सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं लोमहर्षणम्

१०.६.६वसानं चर्म वैयाघ्रं महारुधिरविस्रवम्
कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम्

१०.६.७बाहुभिः स्वायतैः पीनैर्नानाप्रहरणोद्यतैः
बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम्

१०.६.८दंष्ट्राकरालवदनं व्यादितास्यं भयावहम्
नयनानां सहस्रैश्च विचित्रैरभिभूषितम्

१०.६.९नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव वा
सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः

१०.६.१०तस्यास्यान्नासिकाभ्यां च श्रवणाभ्यां च सर्वशः
तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः

१०.६.११तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः
प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः

१०.६.१२तदत्यद्भुतमालोक्य भूतं लोकभयंकरम्
द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत्

१०.६.१३द्रौणिमुक्ताञ्शरांस्तांस्तु तद्भूतं महदग्रसत्
उदधेरिव वार्योघान्पावको वडवामुखः

१०.६.१४अश्वत्थामा तु संप्रेक्ष्य ताञ्शरौघान्निरर्थकान्
रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव

१०.६.१५सा तदाहत्य दीप्ताग्रा रथशक्तिरशीर्यत
युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता

१०.६.१६अथ हेमत्सरुं दिव्यं खड्गमाकाशवर्चसम्
कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम्

१०.६.१७ततः खड्गवरं धीमान्भूताय प्राहिणोत्तदा
स तदासाद्य भूतं वै विलयं तूलवद्ययौ

१०.६.१८ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम्
ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत्

१०.६.१९ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः
अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः

१०.६.२०तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः
अब्रवीदभिसंतप्तः कृपवाक्यमनुस्मरन्

१०.६.२१ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यः
स शोचत्यापदं प्राप्य यथाहमतिवर्त्य तौ

१०.६.२२शास्त्रदृष्टानवध्यान्यः समतीत्य जिघांसति
स पथः प्रच्युतो धर्म्यात्कुपथं प्रतिपद्यते

१०.६.२३गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा
वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च

१०.६.२४मत्तोन्मत्तप्रमत्तेषु न शस्त्राण्युपधारयेत्
इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा

१०.६.२५सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम्
अमार्गेणैवमारभ्य घोरामापदमागतः

१०.६.२६तां चापदं घोरतरां प्रवदन्ति मनीषिणः
यदुद्यम्य महत्कृत्यं भयादपि निवर्तते

१०.६.२७अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह
न हि दैवाद्गरीयो वै मानुषं कर्म कथ्यते

१०.६.२८मानुषं कुर्वतः कर्म यदि दैवान्न सिध्यति
स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते

१०.६.२९प्रतिघातं ह्यविज्ञातं प्रवदन्ति मनीषिणः
यदारभ्य क्रियां कांचिद्भयादिह निवर्तते

१०.६.३०तदिदं दुष्प्रणीतेन भयं मां समुपस्थितम्
न हि द्रोणसुतः संख्ये निवर्तेत कथंचन

१०.६.३१इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम्
न चैतदभिजानामि चिन्तयन्नपि सर्वथा

१०.६.३२ध्रुवं येयमधर्मे मे प्रवृत्ता कलुषा मतिः
तस्याः फलमिदं घोरं प्रतिघाताय दृश्यते

१०.६.३३तदिदं दैवविहितं मम संख्ये निवर्तनम्
नान्यत्र दैवादुद्यन्तुमिह शक्यं कथंचन

१०.६.३४सोऽहमद्य महादेवं प्रपद्ये शरणं प्रभुम्
दैवदण्डमिमं घोरं स हि मे नाशयिष्यति

१०.६.३५कपर्दिनं प्रपद्याथ देवदेवमुमापतिम्
कपालमालिनं रुद्रं भगनेत्रहरं हरम्

१०.६.३६स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च
तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम्