११.११.१वैशंपायन उवाच
११.११.२हतेषु सर्वसैन्येषु धर्मराजो युधिष्ठिरः
शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात्
११.११.३सोऽभ्ययात्पुत्रशोकार्तः पुत्रशोकपरिप्लुतम्
शोचमानो महाराज भ्रातृभिः सहितस्तदा
११.११.४अन्वीयमानो वीरेण दाशार्हेण महात्मना
युयुधानेन च तथा तथैव च युयुत्सुना
११.११.५तमन्वगात्सुदुःखार्ता द्रौपदी शोककर्शिता
सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः
११.११.६स गङ्गामनु वृन्दानि स्त्रीणां भरतसत्तम
कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह
११.११.७ताभिः परिवृतो राजा रुदतीभिः सहस्रशः
ऊर्ध्वबाहुभिरार्ताभिर्ब्रुवतीभिः प्रियाप्रिये
११.११.८क्व नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता
यदावधीत्पितॄन्भ्रातॄन्गुरून्पुत्रान्सखीनपि
११.११.९घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम्
मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम्
११.११.१०किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः
अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत
११.११.११अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव
ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः
११.११.१२ततोऽभिवाद्य पितरं धर्मेणामित्रकर्शनाः
न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः
११.११.१३तमात्मजान्तकरणं पिता पुत्रवधार्दितः
अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे
११.११.१४धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत
दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः
११.११.१५स कोपपावकस्तस्य शोकवायुसमीरितः
भीमसेनमयं दावं दिधक्षुरिव दृश्यते
११.११.१६तस्य संकल्पमाज्ञाय भीमं प्रत्यशुभं हरिः
भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम्
११.११.१७प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः
संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः
११.११.१८तं तु गृह्यैव पाणिभ्यां भीमसेनमयस्मयम्
बभञ्ज बलवान्राजा मन्यमानो वृकोदरम्
११.११.१९नागायुतबलप्राणः स राजा भीममायसम्
भङ्क्त्वा विमथितोरस्कः सुस्राव रुधिरं मुखात्
११.११.२०ततः पपात मेदिन्यां तथैव रुधिरोक्षितः
प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः
११.११.२१पर्यगृह्णत तं विद्वान्सूतो गावल्गणिस्तदा
मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्निव
११.११.२२स तु कोपं समुत्सृज्य गतमन्युर्महामनाः
हा हा भीमेति चुक्रोश भूयः शोकसमन्वितः
११.११.२३तं विदित्वा गतक्रोधं भीमसेनवधार्दितम्
वासुदेवो वरः पुंसामिदं वचनमब्रवीत्
११.११.२४मा शुचो धृतराष्ट्र त्वं नैष भीमस्त्वया हतः
आयसी प्रतिमा ह्येषा त्वया राजन्निपातिता
११.११.२५त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ
मयापकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः
११.११.२६न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन
कः सहेत महाबाहो बाह्वोर्निग्रहणं नरः
११.११.२७यथान्तकमनुप्राप्य जीवन्कश्चिन्न मुच्यते
एवं बाह्वन्तरं प्राप्य तव जीवेन्न कश्चन
११.११.२८तस्मात्पुत्रेण या सा ते प्रतिमा कारितायसी
भीमस्य सेयं कौरव्य तवैवोपहृता मया
११.११.२९पुत्रशोकाभिसंतापाद्धर्मादपहृतं मनः
तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि
११.११.३०न च ते तत्क्षमं राजन्हन्यास्त्वं यद्वृकोदरम्
न हि पुत्रा महाराज जीवेयुस्ते कथंचन
११.११.३१तस्माद्यत्कृतमस्माभिर्मन्यमानैः क्षमं प्रति
अनुमन्यस्व तत्सर्वं मा च शोके मनः कृथाः