११.१२.१वैशंपायन उवाच
११.१२.२तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः
कृतशौचं पुनश्चैनं प्रोवाच मधुसूदनः
११.१२.३राजन्नधीता वेदास्ते शास्त्राणि विविधानि च
श्रुतानि च पुराणानि राजधर्माश्च केवलाः
११.१२.४एवं विद्वान्महाप्राज्ञ नाकार्षीर्वचनं तदा
पाण्डवानधिकाञ्जानन्बले शौर्ये च कौरव
११.१२.५राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते
देशकालविभागं च परं श्रेयः स विन्दति
११.१२.६उच्यमानं च यः श्रेयो गृह्णीते नो हिताहिते
आपदं समनुप्राप्य स शोचत्यनये स्थितः
११.१२.७ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत
राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः
११.१२.८आत्मापराधादायस्तस्तत्किं भीमं जिघांससि
तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम्
११.१२.९यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्सभाम्
स हतो भीमसेनेन वैरं प्रतिचिकीर्षता
११.१२.१०आत्मनोऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः
यदनागसि पाण्डूनां परित्यागः परंतप
११.१२.११एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः
११.१२.१२एवमेतन्महाबाहो यथा वदसि माधव
पुत्रस्नेहस्तु धर्मात्मन्धैर्यान्मां समचालयत्
११.१२.१३दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यविक्रमः
त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम
११.१२.१४इदानीं त्वहमेकाग्रो गतमन्युर्गतज्वरः
मध्यमं पाण्डवं वीरं स्प्रष्टुमिच्छामि केशव
११.१२.१५हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च
पाण्डुपुत्रेषु मे शर्म प्रीतिश्चाप्यवतिष्ठते
११.१२.१६ततः स भीमं च धनंजयं च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ
पस्पर्श गात्रैः प्ररुदन्सुगात्रा;नाश्वास्य कल्याणमुवाच चैनान्