११. स्त्रीपर्व
११.१४.१वैशंपायन उवाच

११.१४.२तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत्
गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा

११.१४.३अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः
आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि

११.१४.४न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः
शक्यः केनचिदुद्यन्तुमतो विषममाचरम्

११.१४.५सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान्
मां हत्वा न हरेद्राज्यमिति चैतत्कृतं मया

११.१४.६राजपुत्रीं च पाञ्चालीमेकवस्त्रां रजस्वलाम्
भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव

११.१४.७सुयोधनमसंगृह्य न शक्या भूः ससागरा
केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया

११.१४.८तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत्
द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत्

११.१४.९तत्रैव वध्यः सोऽस्माकं दुराचारोऽम्ब ते सुतः
धर्मराजाज्ञया चैव स्थिताः स्म समये तदा

११.१४.१०वैरमुद्धुक्षितं राज्ञि पुत्रेण तव तन्महत्
क्लेशिताश्च वने नित्यं तत एतत्कृतं मया

११.१४.११वैरस्यास्य गतः पारं हत्वा दुर्योधनं रणे
राज्यं युधिष्ठिरः प्राप्तो वयं च गतमन्यवः

११.१४.१२गान्धार्युवाच

११.१४.१३न तस्यैष वधस्तात यत्प्रशंससि मे सुतम्
कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि

११.१४.१४हताश्वे नकुले यत्तद्वृषसेनेन भारत
अपिबः शोणितं संख्ये दुःशासनशरीरजम्

११.१४.१५सद्भिर्विगर्हितं घोरमनार्यजनसेवितम्
क्रूरं कर्माकरोः कस्मात्तदयुक्तं वृकोदर

११.१४.१६भीमसेन उवाच

११.१४.१७अन्यस्यापि न पातव्यं रुधिरं किं पुनः स्वकम्
यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन

११.१४.१८रुधिरं न व्यतिक्रामद्दन्तोष्ठं मेऽम्ब मा शुचः
वैवस्वतस्तु तद्वेद हस्तौ मे रुधिरोक्षितौ

११.१४.१९हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे
भ्रातॄणां संप्रहृष्टानां त्रासः संजनितो मया

११.१४.२०केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते
क्रोधाद्यदब्रुवं चाहं तच्च मे हृदि वर्तते

११.१४.२१क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः
प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम्

११.१४.२२न मामर्हसि गान्धारि दोषेण परिशङ्कितुम्
अनिगृह्य पुरा पुत्रानस्मास्वनपकारिषु

११.१४.२३गान्धार्युवाच

११.१४.२४वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः
कस्मान्न शेषयः कंचिद्येनाल्पमपराधितम्

११.१४.२५संतानमावयोस्तात वृद्धयोर्हृतराज्ययोः
कथमन्धद्वयस्यास्य यष्टिरेका न वर्जिता

११.१४.२६शेषे ह्यवस्थिते तात पुत्राणामन्तके त्वयि
न मे दुःखं भवेदेतद्यदि त्वं धर्ममाचरः